मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 502, कुल 672 में से
संदर्भ में पढ़ें60 मानमेयरहस्यश्लोकवार्तिके प्रमाणं च स्वरूपं च धर्मस्यादौ निरूप्यते । श्रुत्यर्थाभ्यामिति व्याख्या भट्टपादस्य सम्मता ॥ मानाधीना मेयसिद्धिर्मानासिद्धिश्च लक्षणात् । तल्लक्षणप्रमाणाभ्यां वस्तुसिद्धिरितीर्यते ॥ द्रव्यक्रियागुणादीनां धर्मत्वं स्थापयिष्यते । तेषामैन्द्रियकत्वेऽपि न ताद्रूप्येण धर्मता ॥ अतएवातिदेशेऽपि विवादोऽस्त्यर्थकार्ययोः । तस्य तत्त्वं चातिदेशपारायणनिरूपितम् ॥ अन्यत्र ह्यन्यदीयस्य देशोऽतीदेश उच्यते । अन्यस्मिन्नन्यताऽभावादित्यप्येष निरूपितः ॥ शास्त्रेऽस्मिन् लक्षणपदं प्रमाणाध्याययोर्मतम् । चोदनालक्षणः शेषलक्षणं चेति दर्शनात् ॥ किमाद्यपेक्षितैः पूर्णस्समर्थः प्रत्ययो विधौ । तेन प्रवर्तकं वाक्यं ग्रन्थेऽस्मिन् चोदनोच्यते ॥ चोदना चोपदेशश्च विध्युद्देशो विधिस्तथा । नियोगो वेद आदेशः शास्त्रं चैकार्थवाचिनः ॥ प्रवर्तेऽहमिति ज्ञानं येन शब्देन जन्यते । स चोदनोच्यते यद्वा प्रवर्तनफला मतिः ॥ यश्चोदनालक्षणस्स्यात्स धर्म इति योजना । धर्मस्वरूपतात्पर्यवचनव्यक्तिलक्षणा ॥