भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 501, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 501

मीमांसावादः 4

विधेयं चोपनयनमङ्गमध्यापनस्य च । प्रभाकरस्याभिमतमेतदर्थचतुष्टयम् ॥ गुणकर्मत्वध्ययनमवघातादिवन्मतम् । नियमोऽत्र विधेयस्स्यात्प्रयुक्तं स्वविधेर्बलात् ॥ स्वस्योपनयनं चाङ्गमेवमर्थचतुष्टयम् । कुमारिलस्याभिमतं ज्ञानान्तत्वं समं द्वयोः ॥ तत्रौपनिषदानां तु मतं स्याद्भाट्टसम्मतम् । विशेषस्स्यादुभयतो ह्यक्षरग्रहणान्तता ॥ अलौकिकं चाहवनीयादिवद्गुरवो विदुः । आचार्यकं भट्टपादा लौकिकं तद्विजानते ॥ गुरोराचारमाश्रित्य वर्तन्तेऽन्तेनिवासिनः । यान्यस्माकमिति श्रुत्या तदेतदभिधीयते ॥ अध्यापयेदिति विधिप्रयुक्तेऽध्ययनक्रमे । अष्टवर्षादिनिर्देशात स्पष्टा शूद्रानधिक्रिया ॥ नियमस्य विधेयत्वेऽप्यधिकारो नियम्यते । उपनीतो हि विद्यार्थी विद्या हि पुमपेक्षिणी ॥ अन्यथाऽनुपपन्नो हि विधिस्यादग्निविद्ययोः । कल्पकः, क्लृप्तनिर्वाहे कल्पना गौरवाऽऽहता ॥ ३ चोदनालक्षणः कार्यं धर्मो वेदार्थ इत्यतः । वेदार्थः कार्यरूपस्स्यादिति व्याख्या गुरोर्मता