भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 500, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 500

458 मानमेयरहस्यश्लोकवार्तिके न्यायवार्तिकतात्पर्यटीकावाक्यं निशम्यताम् । मीमांसासंज्ञकस्तर्कस्सर्वो वेदसमुद्भवः ॥ सोऽतो वेदः रुमाप्राप्तकाष्ठादिलवणात्मवत् । यः पूजितविचारोऽसौ मीमांसाशब्दितस्त्विति ॥ कालादनादेर्मीमांसा प्रवृत्ता लोकतः पृथक् । संजग्राह पुनः न्यायान् तादृशान् जैमिनिर्मुनिः ॥ नह्येकस्तूपसंहर्तुंमियतो न्यायसंचयान् । समर्थः पुरुषो लोक इत्युक्तं तन्त्रवार्तिके ॥ विचारात्पूर्वमेवात्र प्राप्तमध्ययनं विधेः । अतोऽनधीतवेदस्य विचारश्शास्त्रवारितः ॥ 2 स्वाध्यायविधिवाक्यार्थः प्रथमं प्रविभज्यते । प्रवृत्तं शास्त्रमेतद्धि तादृग्विधिनिबन्धनम् ॥ तदर्थपूर्वपक्षांशसिद्धान्तांशप्रकाशकम् । कारिकायुगलं ह्येतत्प्राच्यैर्विलिखितं बुधैः ॥ विनाऽपि विधिना दृष्टलाभान्न हि तदर्थता । कल्प्यस्तु विधिसामर्थ्यात् स्वर्गो विश्वजिदादिवत् लभ्यमाने फले दृष्टे नादृष्टफलकल्पना । विधेस्तु नियमार्थत्वान्नानर्थक्यं भविष्यति ॥ तत्रार्थकर्माध्ययनं सम्मतं सक्तुहोमवत् । भवेदध्यापनविधिप्रयुक्तं च स्वरूपतः ॥

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक) · पृष्ठ 500, कुल 672 में से · BharatKosha