मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 505, कुल 672 में से
संदर्भ में पढ़ेंमीमांसावादः 463 धर्मसंस्थापनायैव भावनार्थव्यवस्थया । प्रतिभावाक्यवाक्यार्थवादाद्या विनिवारिताः ॥ वेदस्यापौरुषेयत्वं स्थापयित्वा परिष्कृता । चोदनालक्षणो धर्म इति सिद्धान्तपद्धतिः ॥ 5 वृत्तिकारमतं चापि भाष्ये बहुलमुज्झितम् । भाष्यकारमतं चापि वार्तिके प्रायशस्तथा ॥ दूषितं चापि बहुशः प्रभाकरगुरोर्मतम् । भट्टपादस्य सिद्धान्ताः राणकेऽपि प्रदूषिताः ॥ राणके मातुलसुतापरिणीत्यादिसाधनम् । शास्त्रदीपप्रकाशे तु शङ्करेण प्रदूषितम् ॥ सोमेश्वरो ह्यन्यथयत् यद्वार्तिककृतां मतम् । तदुद्धूष्य पुनः सोऽहं प्रकृतिं स्वामथानयम् ॥ इतिबालप्रकाशोक्तिश्शाङ्करी परिदृश्यते । तस्माद्युक्तिप्रधानेयं मीमांसेत्यवधार्यताम् ॥ युक्त्यैव ह्यागमस्यापि प्रामाण्यादि प्रसाध्यते । युक्तिशास्त्रं न्यायशास्त्रं मानशास्त्रमिदं स्थितम् । सर्वत्र सूत्रकर्त्तारस्सर्वज्ञाः ऋषयस्त्विति । न निर्बन्धो वार्तिकादेरनारम्भप्रसङ्गतः ॥ व्युत्पाद्यन्ते सहस्रं हि न्यायाश्शास्त्रे यथातथम् । तत्तन्न्यायावगृहीतोऽर्थः चोदनालक्षणो मतः ॥