मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 506, कुल 672 में से
संदर्भ में पढ़ें464 मानमेयरहस्यश्लोकवार्तिके इत्थं संक्षेपतस्तर्कपादवादार्थसंग्रहः । कृतोऽथाध्यायसारांशोद्धारः सम्यक् वितन्यते ॥ (94) अध्यायार्थसंग्रहः 1 धर्मधीर्मानभेदाङ्गप्रयुक्तिक्रमकर्तृभिः । सातिदेशविशेषोहबाधतन्त्रप्रसक्तिभिः ॥ अमानस्य निरूप्यत्वायोगात्प्राथम्ययोगिना । प्रमाणलक्षणेनात्राभावि द्वादशलक्षणे ॥ वेदार्थभेदाभावे स्यादङ्गत्वादिरयुक्तिमान् । शास्त्रार्थभेदचिन्ताऽथ शब्दभेदादिमानतः ॥ सिद्धे भेदे शेषशेषिभावबोधनलक्षणम् । श्रुतिलिङ्गादिमानेन प्रवृत्तं शेषलक्षणम् ॥ प्रावर्तिष्ठाथ जिज्ञासा शेषाणामेव शेषिभिः । प्रयोज्यत्वाय तुर्येऽस्मिन् क्रत्वर्थपुरुषार्थयोः ॥ प्रयुक्तेषु पदार्थेषु श्रुत्यर्थादिप्रमाणतः । अनुक्रान्तः पञ्चमे चाव्यवधानात्मकः क्रमः ॥ सक्रमे चापि शास्त्रार्थे स्थापितेऽथ निरूपितः । तत्प्रयोक्ता चोपदेशषट्केऽस्मिन् षष्ठलक्षणे ॥ 2 अथोपदिष्टे प्रकृतिविचारे विकृतौ पुनः । सामान्यतोऽतिदेशोऽत्र सप्तमे स्थापयिष्यते ॥