मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 492, कुल 672 में से
संदर्भ में पढ़ें450 मानमेयरहस्यश्लोकवार्तिके 6 हितानुशासनं वाक्यं विधिरत्र विवक्षितः । लिङ्वाच्योऽपूर्व इत्यत्र ख्यातो व्युत्पत्त्यसंभवः । विमर्शात्सिद्धिरितिचेत् विमर्शः स्मृतिरेव हि । अस्तु वा कार्य एवादौ व्युत्पत्तिः व्यवहारतः ॥ अन्वयव्यतिरेकाभ्यां शब्दशक्तिर्विविच्यते । प्रयुज्यन्ते सिद्धपराः वक्तृभिर्हि कथा यथा ॥ प्रतिष्ठा देशभेदश्च छागादिर्वा घृताञ्जनम् । यातनासाधनत्वं च गृह्यते विध्यपेक्षितम् ॥ प्रतीता देवताप्रीतिः अपूर्वमुपकल्प्यताम् । लिङो वाच्यतया द्वारं स्वरूपाद्वा किमन्यतः ॥ विग्रहो हविरादानं युगपत्कर्मसन्निधिः । प्रीतिः फलप्रदानं च देवतानां न विद्यते ॥ इति वादो भवेदर्थचार्वाकमतिमूलकः । अनचिद्देवतापक्षे शाब्दमार्गक्रमस्त्वयम् ॥ किमर्थं किं केन कथं वेति स्याद्धि चतुर्विधा । आकाङ्क्षा तत्रचाद्यायाः पूर्तिस्स्वर्गादिना मता। देवतां प्रीणयेदित्येतया शाम्यत्यनन्तरा । ज्योतिष्टोमेनेति नामधेयात्केनेति शाम्यति ॥ कथमित्यस्य शान्तिस्तु समानैवोभयोरपि । विशेषतश्च पुरुषः चोदनाशब्दसूचितः ॥