भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 510, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 510

आकाङ्क्षाक्रमयोगेन त्रयस्ते क्रमयोगिनः ॥ शब्दान्तराभ्याससंख्यानामधेयगुणैस्सह । अन्यत्प्रकरणं चेति प्रमाणं कर्मभेदकम् ॥ कालो देशो निमित्तं च फलं संस्कार्यमेवच । सहकार्यनुपादेयपञ्चकं प्रक्रियान्तरे ॥ 4 परोद्देशप्रवृत्तस्य नरस्य कृतिकारकम् । अङ्गं स्याद्द्रव्यजात्यादिसिद्धोऽप्यङ्गं ततो भवेत् इतिकर्तव्यत्वता तु तादृक्पुंकृतिसाध्यता । सा द्विधा संनिपत्यारादुपकारकभेदतः ॥ विधीयमानव्रीह्यादिद्रव्याद्युद्दिश्य या क्रिया । तत्संनिपत्योपकारकाङ्गं सर्वार्थमेव तत् ॥ अथवाऽङ्गिस्वरूपस्य निष्पादकमितीर्यते । द्रव्याद्यनुद्दिश्य यत्स्यात्तदारादुपकारकम् ॥ अदृष्टार्थं फलापूर्वोत्पत्तावेवोपयुज्यते । अथवाोत्पत्त्यपूर्वीयशक्तिसंपादकं हि तत् ॥ 5 कर्म द्विधा ह्यर्थकर्म गुणकर्मेति भेदतः । अर्थकर्म भवेदात्मगतापूर्वस्य कारणम् ॥ परं संस्कारजनकं तच्च द्विविधमिष्यते । यथोपयुक्तोपयोक्ष्यमाणसंस्कारभेदतः ॥