भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 511, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 511

वेदविरुक्तिवादः 469 उपयुक्ताकीर्णकरद्रव्यस्य विहिते स्थले । प्रक्षेपः प्रतिपत्तिस्सा ह्युपयुक्तस्य संस्क्रिया ॥ उत्पत्तिराप्तिर्विकृतिस्संस्कृतिश्च परं भवेत् । आधानाधीत्यवघातप्रोक्षणानीत्युदाहृतिः ॥ यत्स्यात्पशुपुरोडाशप्रभृतिष्वंशभेदतः । दृष्टार्थं चाप्यदृष्टार्थमाश्रयीत्युच्यते हि तत् ॥ नित्यकाम्यविभेदेन तथा कर्म विभज्यते । सर्वस्यैव च काम्यत्वे कामना न भवेद्यदि ॥ सर्वोऽपि वैदिकः पन्थाः भवेदत्तजलाञ्जलिः । सर्वस्यापि च नित्यत्वे त्वशक्त्या स्यादवत्सलः ॥ तत्र नित्यं तु शक्याङ्गं काम्यमुक्ताङ्गकं मतम् । नित्यकाम्यस्वरूपैक्ये विनियोगपृथक्त्वतः ॥ फलार्थं क्रियमाणेऽपि नित्यं भवति तन्त्रतः । नित्येन काम्यसिद्धिं तु कल्पकाराः प्रचक्षते ॥ पापक्षयफलं नित्यं काम्यं चापि क्वचिद्यदा । आरब्धे कामनाहानावुक्ताङ्गशक्तिसंभवे ॥ प्रत्यवायपरीहारफलं तन्नित्यमित्यपि । अपरे प्राहुरनयोर्विशेषस्सूक्ष्म इष्यते ॥ नित्यं सामान्यफलतः काम्यं फलविशेषतः । प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ॥