मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 512, कुल 672 में से
संदर्भ में पढ़ें470 मानमेयरहस्यश्लोकवार्त्तिके नैमित्तिकं कर्मभेदं प्रायश्चित्तादिलक्षणम् । प्राहुः परे तत्तु कर्म काम्यमेवेति केचन ॥ 6 प्रवर्तको नैव लिड्स्यात् तद्व्यापारोऽपि नेष्यते । तदर्थभेदो नाज्ञादिः न कार्यं नेष्टहेतुता ॥ अभिधाभावनैवेष्टा लिङाद्यभिहिता तु या । सैव प्रवर्तनाभिख्या प्रेरणेति च गीयते ॥ अर्थात्मा भावना त्वन्या सर्वाख्यातेषु दृश्यते । कृतिः प्रयत्नो व्यापार इत्यादिर्व्यपदेशभाक् ॥ निजार्थात्तु लिङर्थोऽसौ विलक्षणतया मतः । ज्ञापकव्यापार एषः स तु कारकसंश्रितः ॥ प्रवर्तनस्मृतिः प्राप्ते प्रैष इत्यभिधीयते । अप्राप्ते प्रेषणं सर्वं विधित्वं प्रतिपद्यते ॥ विधिः प्रवर्तकत्वाख्यस्वरूपानुपपत्तितः । स्वर्गं साध्यतया यागं साधनत्वेन बोधयेत् ॥ भवितुर्भवनानुकूलो भावयितुर्भवेत् । व्यापारो भावना सैषा शाब्दी चार्थीति भिद्यते ॥ आद्या प्रवर्तनाभिख्या लिङाद्यभिहितोदिता । नञ्संव्यवहारे तु बोध्यते सा निवर्तना ॥ पुंप्रवृत्त्यनुकूलात्मा व्यापारः शब्दगोऽग्रिमः । पुंनिवृत्त्यनुकूलात्मा व्यापारोऽनन्तरो मतः ॥