भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 513, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 513

वेदनिरुक्तिवादः 471 प्रवृत्तिस्तु भवेदार्थी भावनाऽऽख्यातबोधिता । तदभावो निवृत्तिस्तु नञा योगे तु बुद्ध्यते ॥ प्रयोजनेच्छाजनितः पुंव्यापारोऽत्र चादिमः । अनिष्टद्वेषजनितः तदभावोऽन्तिमो मतः ॥ 7 साध्यं च साधनं चेतिकर्तव्यत्वमिति क्रमात् । किं केन कथमित्येवमाकांक्षात्रयपूरकम् ॥ शाब्दी प्रवृत्तिलिङ्ग्स्तोत्रैस्त्र्यंशा भवति भावना । आर्थी तु स्वर्गयागाङ्गैः त्र्यंशेति परिनिष्ठितम् ॥ अङ्गताग्राहकं मानं षड्विधं श्रुतिरादिमम् । लिङ्गं वाक्यं प्रकरणं स्थानं सह समाख्यया ॥ निरपेक्षः कण्ठरवः श्रुतिः लिङ्गं समर्थता । समभिव्याहृतिर्वाक्यं पदयोऽशेषिशेषयोः ॥ प्रक्रिया ह्युभयाकांक्षा स्थानं सादेश्यमिष्यते । समाख्या यौगिकश्शब्दः तेषां भेदान् प्रचक्ष्महे॥ विभक्त्येकाभिधानैकपदभेदात्त्रिधा श्रुतिः । शब्दार्थसामर्थ्यभेदाल्लिङ्गं द्विविधमुच्यते ॥ इतिकर्तव्यताकाङ्क्षा द्वेधा प्रकरणं हि तत् । करणानुग्राहकं तदितिकर्तव्यतोच्यते ॥ महाप्रकरणं तत्र फलभावनया युतम् । अवान्तरप्रकरणमङ्गभावनया युतम् ॥