भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 509, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 509

वेदनिरुक्तिवादः 46 एवं विधिप्रकारस्स्यात् षड्विधोऽर्थविभेदतः । उत्तरोत्तरतः पूर्वपूर्वं लघ्विति निर्णयः ॥ विधिश्चतुर्विध इति विभक्तः प्रायशो बुधैः । 3 उत्पत्तेर्विनियोगस्य तत्प्रयोगाधिकारयोः ॥ कर्मस्वरूपमात्रस्य बोधको विधिरादिमः । कर्मस्वरूपनिष्ठा या त्वज्ञातज्ञाप्यतात्मिका ॥ विधेयता स्यात्तच्छालिबोधस्य जनको ह्यसौ । अङ्गप्रधानसंबन्धबोधकस्स्यादनन्तरः ॥ प्रयोगप्राशुभावस्य तृतीयो बोधको मतः । कर्मजन्यफलस्वाम्यबोधकोऽधिकृतेर्विधिः ॥ एवंविधविभागस्य निदानमवधार्यताम् । उत्पत्तिविधिराद्यो यः स द्वितीये विचार्यते ॥ विनियोगविधिस्त्वन्यः यस्तृतीये विचार्यते । चतुर्थे पञ्चमे चैव प्रयोगविधिचिन्तनम् ॥ अधिकारविधिस्त्वन्यः यष्षष्ठाध्यायगोचरः । एवं प्रमेयवैविध्याच्चातुर्विध्यं प्रकल्पितम् ॥ चतुष्टयेऽपि चैकस्मिन् क्वचित्किंचिद्विवक्षितम् । एवं द्वयं त्रयं वापि क्वचिच्चापि चतुष्टयम् ॥ प्रवर्तनालक्षणस्य विधेस्त्रेधा विधेयता । यागत्वरूपेणाद्या स्यादिष्टहेतुतयाऽपरा ॥