मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 508, कुल 672 में से
संदर्भ में पढ़ें466 मानमेयरहस्यश्लोकवार्तिके हेतुर्निर्वचनं निन्दा प्रशंसा संशयो विधिः । परक्रिया पुराकल्पः व्यवधारणकल्पना ॥ उपमानं दशैते तु विधयो ब्राह्मणस्य हि । 2 इति प्राचां विभागस्स्यादर्वाचामथचोच्यते । धर्मः प्रयोजनयुतो ह्यर्थस्स्याद्वेदबोधितः । सर्वस्यापिच वेदस्य धर्मे तात्पर्यमिष्यते ॥ विधिर्मन्त्रो नामधेयः निषेधश्च ततःपरः । अर्थवाद इति स्पष्टः वेदराशिर्हि पञ्चधा ॥ अज्ञातार्थज्ञापको यो वेदराशिर्विधिर्मतः । विध्यर्थवादमन्त्राश्च स्मृत्याचारौ च नाम च ॥ वाक्यशेषश्च सामर्थ्यं धर्ममानमितीरितम् । तत्र कर्मोत्पत्तिवाक्यं फलवाक्यं गुणश्रुतिः ॥ फलाय गुणवाक्यं च वाक्यं सगुणकर्मणः । फलवद्गुणवाक्यं चेत्येवं वाक्यं हि षड्विधम् ॥ आद्यो धात्वर्थमात्रस्य विधिरित्युच्यते बुधैः । अन्योद्देशेन धात्वर्थविधिस्तु स्यादनन्तरः ॥ तथा धात्वर्थमुद्दिश्य तृतीयोऽन्यविधिर्मतः । अन्योद्देशेनान्यविधिः चतुर्थ इति गीयते ॥ पञ्चमो गुणसंयुक्तधात्वर्थविधिरुच्यते । अन्योद्देशेन षष्ठस्स्याद्विशिष्टविधिरेवचेत् ॥