मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 517, कुल 672 में से
संदर्भ में पढ़ेंसामान्यनिरुक्तिवादः 47 अग्निर्हिमस्येतिवाक्यं मन्त्रत्वेन समर्थितम् । अर्थवादेऽनुवादस्य नोदाहरणमर्हति ॥ प्राशस्त्यादिमतिस्त्वर्थवादादेव नियम्यते । प्राशस्त्यादिस्ततो धर्मः नियमादृष्टसाधनम् ॥ सोऽर्थवादो धर्मशाब्दबोधे विध्येकवाक्यतः । धर्मे प्रमाणमथवा निरुक्तज्ञानकारणम् ॥ 15 यदिभागे च साकाङ्क्षमेकार्थमविभागतः । तदेकवाक्यं द्विविधं पदवाक्यविभेदतः ॥ स्वजन्योपस्थितौ स्वार्थे विषये पदपूर्वकम् । स्वजन्यबोधे विषये स्वार्थे स्याद्वाक्यपूर्वकम् ॥ एकानेकार्थभेदेन स भेदः परिभाष्यते । सार्थवादोत्पत्तिविधिप्रयोगविधिभेदतः ॥ इत्थं पञ्चविधे वेदे प्रधानार्थानुबन्धिनाम् । निरुक्तिसंग्रहो ज्ञेयः सामान्यांशोऽथ लिख्यते ॥ (96) सामान्यानिरुक्तिवादः. 1 मन्त्रब्राह्मणपर्याप्ताखण्डोपाधिर्हि वेदता । मन्त्रत्वं ब्राह्मणत्वं चाखण्डोपाधिरितीष्यते ॥ ऋक्त्वं पादव्यवस्थावन्मन्त्रत्वमिति निर्णयः । मन्त्रत्वैकाधिकरणगीतित्वं सामता मता ॥