मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 519, कुल 672 में से
संदर्भ में पढ़ें3 देवतोद्देशतो द्रव्यत्यागो यागो निरुच्यते । दानं स्वस्वत्वमुन्मृद्य परस्वत्वप्रकल्पनम् ॥ प्रक्षेपसहितो यागो होम इत्यभिधीयते । यथेष्टविनियोगस्य योग्यत्वं स्वत्वमुच्यते ॥ देवतातत्वं त्यज्यमानद्रव्योद्देश्यत्वमिष्यते । अथवा विधिवाक्यस्थशब्दत्वसमवृत्तिमान् ॥ अखण्डोपाधिरथवा तच्छब्दप्रतिपाद्यता । प्रतिग्रहीतृत्वयोगे सैव स्यात्सम्प्रदानता ॥ अव्यक्तिरुत्पत्तिवाक्ये देवतानभिबोधनम् । तथाऽवदीयमानत्वं हविष्टुमिति भाष्यते ॥ 4 क्रत्वनुष्ठाप्यता यत्र क्रत्वर्थत्वं तदुच्यते । फलानुष्ठाप्यता यत्र सोच्यते पुरुषार्थता ॥ फलस्य पुरुषार्थत्वव्यवहारस्तु भक्तितः । विधानमप्रवृत्तस्य प्रवर्तनमितीरितम् ॥ उपादानमनुष्ठानमननुष्ठितगोचरम् । अनुष्ठानोद्देश्यतया विहितं स्यात्प्रयोजकम् ॥ विधेयत्वेन विहितं प्रयोज्यमिति निर्णयः । प्रधानमिह विध्यादिरङ्गं विध्यन्त उच्यते ॥ दक्षिणा नाम तद्द्रव्यं यत्स्यादानतिसाधनम् । सा चैकस्मिन् क्रतावेका वशीकरणमानतिः ॥