भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 520, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 520

478 मानमेयरहस्यश्लोकवार्तिके सामान्यतो निरुक्तीनां संग्रहोऽयं विबुध्यताम् । आनन्त्यानवकाशाभ्यां संक्षेपरुचयो बुधाः ॥ (97) दोषनिरुक्तिवादः. 1 प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः ॥ श्रौतव्यापारनानात्वे शब्दानामतिगौरवम् । एकोक्त्यवसितानां तु नार्थाक्षेपो विरुध्यते ॥ वाक्यार्थविधिरन्याय्यः श्रुत्यर्थविधिसंभवे । पदान्तरार्थो वाक्यार्थः समानार्थोऽपरो मतः ॥ विधिर्लघ्वर्थविषयः शान्ताकांक्षो भवेद्यदि । भारो लाघवतर्काख्यमीमांसाया न युज्यते ॥ करोत्यपरपर्यायभावना त्वेककर्मिका । अतस्त्वनेकोद्देश्यत्वे वाक्यभेदः प्रवर्तते ॥ विधेयतोद्देश्यता चाप्येका कृतिनिरूपिता । अतो विधेयभेदेऽपि तद्भेदो दुर्निवारणः ॥ वाक्यभेदो वाक्यदोषः पददोषस्तु लक्षणा । पदवाक्यसमावेशे गुणे त्वन्याय्यकल्पना ॥ विधेयमात्रं वोद्देश्यमात्रं स्वरसवाहतः । समर्पयेदेकपदं स चैकप्रसरो मतः ॥