मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 521, कुल 672 में से
संदर्भ में पढ़ेंतदङ्गलक्षणः कश्चिद्वाक्यभेदः प्रकीर्त्यते । अंशभेदे वाक्यभेदः कश्चिद्गौरवलक्षणः ॥ त्रिकद्वयसमावेशात्कश्चिद्वैरूप्यलक्षणः । उद्देश्यत्वानुवाद्यत्वप्रधानत्वत्रिकं क्वचित् ॥ उपादानविधेयत्वगुणत्वत्रितयं क्वचित् । मानान्तरेण सिद्धस्य या स्यान्निर्दिश्यमानता ॥ विधेयस्यान्वयित्वेन तदुद्देश्यत्वमुच्यते । मानान्तरेण सिद्धस्य पुनश्च श्रूयमाणता ॥ भवेत्तदनुवाद्यत्वं प्रधानत्वं गुणान्वयः । पुंसाऽनुष्ठायिमानत्वमुपादेयत्वमिष्यते ॥ अप्राप्तत्वयुता वाक्यवेद्यता स्याद्विधेयता । गुणत्वं विहितत्वं स्यादाङ्गत्वेन च कर्मणः ॥ यद्वृत्तयोगः प्राथम्यं द्वयमुद्देश्यलक्षणम् । तद्वृत्तमेवकारश्च स्यादुपादेयलक्षणम् ॥ येषामाख्यातशब्दानां यदप्याद्युपबन्धनात् । विधिशक्तिः प्रणश्येत्तु ते सर्वत्राभिधायकाः ॥ २ विरोधे तुल्यबलयोर्विकल्पः परिगृह्यते । गत्यन्तरे च न सति सैषा ह्यगतिका गतिः ॥ प्रामाण्यस्य परित्यागः त्वप्रामाण्यस्य कल्पना त्यक्तमानत्वोपगमोऽत्यक्तप्रामाण्यवर्जनम् ।