भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 524, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 524

परस्परापेक्षतायामुपक्रमनयान्वयः । परस्परानपेक्षत्वे त्वपच्छेदनयान्वयः ॥ भूयोऽनुग्रहनीतिस्तु संख्यावैषम्यगोचरा । विरोधाधिकृतिन्यायः प्राबल्यात्परबाधकः ॥ २ दृष्टार्थत्वे संभवति नादृष्टार्थत्वमिष्यते । प्रयाजशेषप्रक्षेपः प्रतिपत्तिरतो मता ॥ वाजिनेऽप्यनुनिष्पन्नप्रतिपत्तिरितीष्यते । अतोऽध्ययनमन्त्रादेः दृष्टार्थत्वव्यवस्थितिः ॥ वचनेन विरोधे तु न हि न्यायः प्रवर्तते । घटं पटयितुं नेष्टेऽप्यागमानां सहस्रकम् ॥ आनर्थक्यप्रतिहतौ विपरीतं बलाबलम् । रूपे श्रुतेऽपि दध्नेतिवाक्यं गुणविधिर्मतः ॥ दुर्बलस्य प्रमाणस्य बलवानाश्रयो यदा । तदापि विपरीतत्वं शिष्टाकोपे यथोदितम् ॥ अत्यन्तबलवन्तोऽपि पौरजानपदा जनाः। दुर्बलैरपि बाध्यन्ते प्रबलैः पार्थिवाश्रितैः ॥ स्वरूपतः प्रकरणे स्थानाच्च बलवत्यपि । पूषानुमन्त्रणे लिङ्गसमाश्रितसमाख्यया ॥ बाध्यते हि प्रकरणमुपजीव्यविरोधतः । कल्प्योपकारापूर्वाङ्गात्प्राक्प्राकृतसमन्वयः ॥