मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 523, कुल 672 में से
संदर्भ में पढ़ेंन्यायनि॒रुक्तिवादः 481 बाध्यतेऽनन्यथासिद्धेनान्यथासिद्धतास्पदम् । तथा निरवकाशेन सावकाशं विशेषतः ॥ नैमित्तिकेन नित्यं च क्रत्वर्थं पुरुषार्थतः । पूर्वं परेणातिदिष्टमुपदिष्टेन बाध्यते ॥ सफलं निष्फलेनापि ह्यदृष्टं चापि दृष्टतः । बाध्यते चाप्युपादेयमनुपादेयतावता ॥ श्रौतेन बाध्यते स्मार्तं प्रबलेनापि दुर्बलम् । प्रधानेनाङ्गभूतं च लाघवेनापि गौरवम् ॥ अपेक्षितविधानेन विधानमनपेक्षितम् । भूयसा चाल्पबाधस्स्यात् रूढ्या योगः प्रबाध्यते एवमाद्यवगन्तव्यं नास्त्यन्तो विस्तरस्य हि । सिद्धानुगममात्रं तु कर्तुं युक्तं परीक्षकैः ॥ एवं दोषनिरुक्तीनां सरणिः स्यात्प्रदर्शिता । अथ न्यायनि॒रुक्तीनां सरणिश्च प्रदर्श्यते ॥ (98) न्यायनि॒रुक्तिवादः. 1 स्यादेकाङ्गानुवादेन ह्यङ्गयोश्चोद्यमानयोः । अन्तराले विधानं यत् स संदंश इतीर्यते ॥ धर्मविप्रतिषेधस्तु यदि स्यादङ्गमुख्ययोः । प्रधानानुग्रहो न्याय्यः सोमस्स्यात्तेन पर्वणि ॥ M.R. 61