मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
न्यायनि॒रुक्तिवादः 481 बाध्यतेऽनन्यथासिद्धेनान्यथासिद्धतास्पदम् । तथा निरवकाशेन सावकाशं विशेषतः ॥ नैमित्तिकेन नित्यं च क्रत्वर्थं पुरुषार्थतः । पूर्वं परेणातिदिष्टमुपदिष्टेन बाध्यते ॥ सफलं निष्फलेनापि ह्यदृष्टं चापि दृष्टतः । बाध्यते चाप्युपादेयमनुपादेयतावता ॥ श्रौतेन बाध्यते स्मार्तं प्रबलेनापि दुर्बलम् । प्रधानेनाङ्गभूतं च लाघवेनापि गौरवम् ॥ अपेक्षितविधानेन विधानमनपेक्षितम् । भूयसा चाल्पबाधस्स्यात् रूढ्या योगः प्रबाध्यते एवमाद्यवगन्तव्यं नास्त्यन्तो विस्तरस्य हि । सिद्धानुगममात्रं तु कर्तुं युक्तं परीक्षकैः ॥ एवं दोषनिरुक्तीनां सरणिः स्यात्प्रदर्शिता । अथ न्यायनि॒रुक्तीनां सरणिश्च प्रदर्श्यते ॥ (98) न्यायनि॒रुक्तिवादः. 1 स्यादेकाङ्गानुवादेन ह्यङ्गयोश्चोद्यमानयोः । अन्तराले विधानं यत् स संदंश इतीर्यते ॥ धर्मविप्रतिषेधस्तु यदि स्यादङ्गमुख्ययोः । प्रधानानुग्रहो न्याय्यः सोमस्स्यात्तेन पर्वणि ॥ M.R. 61
परस्परापेक्षतायामुपक्रमनयान्वयः । परस्परानपेक्षत्वे त्वपच्छेदनयान्वयः ॥ भूयोऽनुग्रहनीतिस्तु संख्यावैषम्यगोचरा । विरोधाधिकृतिन्यायः प्राबल्यात्परबाधकः ॥ २ दृष्टार्थत्वे संभवति नादृष्टार्थत्वमिष्यते । प्रयाजशेषप्रक्षेपः प्रतिपत्तिरतो मता ॥ वाजिनेऽप्यनुनिष्पन्नप्रतिपत्तिरितीष्यते । अतोऽध्ययनमन्त्रादेः दृष्टार्थत्वव्यवस्थितिः ॥ वचनेन विरोधे तु न हि न्यायः प्रवर्तते । घटं पटयितुं नेष्टेऽप्यागमानां सहस्रकम् ॥ आनर्थक्यप्रतिहतौ विपरीतं बलाबलम् । रूपे श्रुतेऽपि दध्नेतिवाक्यं गुणविधिर्मतः ॥ दुर्बलस्य प्रमाणस्य बलवानाश्रयो यदा । तदापि विपरीतत्वं शिष्टाकोपे यथोदितम् ॥ अत्यन्तबलवन्तोऽपि पौरजानपदा जनाः। दुर्बलैरपि बाध्यन्ते प्रबलैः पार्थिवाश्रितैः ॥ स्वरूपतः प्रकरणे स्थानाच्च बलवत्यपि । पूषानुमन्त्रणे लिङ्गसमाश्रितसमाख्यया ॥ बाध्यते हि प्रकरणमुपजीव्यविरोधतः । कल्प्योपकारापूर्वाङ्गात्प्राक्प्राकृतसमन्वयः ॥
न्यायनिरुक्तिवादः 48 फलं तस्य च संबन्धः कल्प्यौ विश्वजिति क्रतौ । रात्रिसत्रेष्वर्थवादफलसंबन्धकल्पना ॥ प्रसक्तस्य प्रतिषेधे तदन्यत्राप्रसङ्गतः । संप्रत्ययश्शिष्यमाणे परिशेष इतीर्यते ॥ ३ सामान्यविधिरस्पष्टस्संह्रियेत विशेषतः । स्पष्टस्य तु विशेषेण नोपसंहार इष्यते ॥ शब्दोपात्तविशेषेऽर्थे संकोचश्चेदसौ नयः । शब्दोपात्तविशेषान्यविषये यदि विश्रमः ॥ गोबलीवर्दनीतिस्स्यात् वैयर्थ्यविनिवृत्तये । तथैवोत्सर्गापवादः विरोधविनिवृत्तये ॥ तद्धितेन चतुर्थ्या वा मन्त्रलिङ्गेन वा पुनः । देवतासङ्गतिस्तत्र दुर्बलं तु परंपरम् ॥ इष्टा शीघ्रप्रवृत्तित्वायोगाद्रूढिर्बलीयसी । अश्वकर्णादिशब्देषु विपरीतं बलाबलम् ॥ पदान्तरं प्रयुक्तं चेद्यौगिकार्थविशेषकम् । रूढिशक्तेर्भञ्जकं स्याद्यथा चाग्रसरोरुहम् ॥ सर्वत्र यौगिकैश्शब्दैर्द्रव्यमेवाभिधीयते । न हि संबन्धवाचित्वं संभवत्यतिगौरवात् ॥ सर्वाण्येव हि शास्त्राणि स्वप्रदेशान्तरैस्सह । एकवाक्यतया युक्तमुपदेशं प्रतन्वते ॥
उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥ 4 यो नाम वेदतात्पर्यनिर्णयाय विरच्यते । न्यायाख्यस्सोऽधिकरणमिति व्यवहृतं बुधैः ॥ विषयो विशयश्चैव विचारो निर्णयस्तथा । प्रयोजनं च पञ्चाङ्गं प्राञ्चोऽधिकरणं विदुः ॥ सङ्गतिर्विषयश्चैव संशयोत्थानकारणम् । संशयस्य प्रकारश्च तदर्था च विचिन्तना ॥ तस्यां फलफलित्वं च न्यायौ द्वौ पूर्वपक्षयोः । निर्णयस्तत्फलं चेति दशाङ्गानीतरे विदुः ॥ वाक्यस्य विषयत्वं तु यत्कोट्योस्संशयीययोः । उपस्थापकशब्दाभ्यां घटितं सत् तथैवच ॥ सन्न्यायाधीनतात्पर्यनिर्णयादेककोटिकाम् । प्रमिति जनयेत् वाक्यं तत्त्वमित्यवधार्यते ॥ न्यायत्वं च निरुक्ताङ्गपञ्चकाद्यवबोधकम् । वाक्यजातं यथा न्यायवाक्यं शास्त्रान्तरे मतम् ॥ अनन्तराभिधाने या जिज्ञासा स्यात्प्रयोजिका । तद्धेतुज्ञानविषयसम्बन्धः सङ्गतिर्मता ॥ तां प्रसङ्ग उपोद्घातः हेतुताऽवसरस्तथा । निर्वाहकैक्यं कार्यैक्यमिति षोढा विदुः परे ॥
न्यायनिरुक्तिवादः ४८ अपवाद उपोद्घातः प्रसङ्गः प्रत्युदाहृतिः । दृष्टान्ताक्षेपातिदेशा इति मीमांसका विदुः ॥ पूर्वाधिकृतिसिद्धान्तन्यायं यत्रावलम्बते । उत्तराधिक्रियापूर्वपक्षस्तत्रापवादिकी ॥ उपोद्घातः प्रस्तुतार्थस्योपपादकता मतः । चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं विदुर्बुधाः ॥ उपोद्घातस्य चिन्तेयं यस्मान्निर्वाहिका स्थिता । तस्मात्तादर्थ्यताश्चिन्तैवोपोद्घात इतीर्यते ॥ स्मृतस्योक्तार्थसंबन्धादुपेक्षाया अनर्हता । प्रसङ्ग इति यत्प्राहुर्यस्मात्सैव हि सङ्गतिः ॥ तस्मादुपोद्घातमुखसङ्गतिभ्यः पृथक्कृतः । या सङ्गतिस्स प्रसङ्ग इति निष्कृष्टलक्षणम् ॥ पूर्वाधिकृतिसिद्धान्तन्यायस्याविषयीक्रियाम् । आलम्ब्य पूर्वपक्षस्योत्थाने स्यात्प्रत्युदाहृतिः ॥ पूर्वाधिकृतिसिद्धान्तन्यायसाधर्म्यसंश्रयात् । उत्तराधिक्रियापूर्वपक्षे दृष्टान्तसङ्गतिः ॥ पूर्वाधिकृतिसिद्धान्तन्यायस्यानुपपन्नताम् । शङ्कित्वा पूर्वपक्षस्योत्थाने त्वाक्षेपसंगतिः ॥ कृत्वा यत्राधिकाशङ्कां पूर्वमेवातिदिश्यते । संगतिः कथिता सद्भिः काचित्तत्रातिदेशिकी ॥
इत्थं संगतयस्सप्त मीमांसाशास्त्रसम्मताः । तत्सामान्यं विशेषाश्च संग्रहेण निरूपिताः ॥ 5 अथार्हतानां सिद्धान्ते प्रमाणनयवादिनाम् । नयस्वरूपं संक्षेपादिङ्मात्रमुपदर्श्यते ॥ श्रुतप्रमाणविषयविशिष्टैकांशगोचरः । अंशान्तरोदासीन्येन परामर्शो नयो मतः ॥ नयेनेतरसिद्धान्ताविरोधं प्रतिपेदिरे । इतरांशानिषेधे तु नयाभास उदाहृतः ॥ सकलो विकलश्चेति चादेशो द्विविधस्ततः । नायं वस्तु नचावस्तु वस्त्वंशः कथ्यते बुधैः ॥ नासमुद्रस्समुद्रो वा समुद्रांशो यथैव हि । तन्मात्रस्य समुद्रत्वे शेषांशस्यासमुद्रता ॥ काला त्मरूप संबन्धाः संसर्गोपक्रिये तथा । गुणिदेशा र्थ शब्दाश्चेत्यष्टौ कालादयो मताः ॥ कालादिभिरभेदेन युगपत्प्रतिपादकम् । वचस्स्यात्सकलादेशः तदन्यद्विकलात्मकम् ॥ सप्तभङ्गी सम्मतैव प्रमाणनयवाक्ययोः । विस्तरस्त्ववगन्तव्यः प्रमाणनयलोकने ॥ (99) वाक्यार्थवादः. 1 अथ वाक्यार्थवादोऽयमेष संगृह्यते तथा । यदर्थस्सकलश्शब्दः यतो यात्राऽपि लौकिकी
वाक्यार्थवादः 487 जगत्यामिह याकाचित्प्रवृत्तिः परिदृश्यते । व्यापारोऽसौ क्रियारूपः सहि धात्वर्थलक्षणः ॥ क्रियैवोत्पादना भावो भावनेति च पठ्यते । चलनात्मा परिस्पन्दः गतिः कर्मेत्यपीर्यते ॥ व्यापारस्स तु वस्तूनां स्वभावादेव जायते । रजोगुणस्वभावोऽसौ क्षीरस्येवेति कापिलः ॥ तथात्वे कालदेशादिनियमानुपपत्तितः । स्वतन्त्रचेतनेच्छादिमूलस्स्यादिति वैदिकः ॥ अन्यथा सकलं शास्त्रं भवेदत्तजलाञ्जलि । विधानप्रतिषेधार्थं लौकिकं चाप्यनर्थकम् ॥ चेतनस्य स्वतन्त्रस्य ज्ञानेच्छादिनिबन्धनः । अस्ति ह्याभ्यन्तरः कश्चित्प्रयत्नः कृतिलक्षणः ॥ चेष्टादिलक्षणस्तेन बाह्यो व्यापार इष्यते । सर्वा प्रवृत्तिस्तन्मूलेत्येतदध्यक्षसुस्थितम् ॥ बुद्धिजन्या भवेदिच्छा हीच्छाजन्या भवेत्कृतिः । कृतिजन्या भवेच्चेष्टा चेष्टाजन्या भवेत्क्रिया ॥ 2 रजोगुणस्वभावेन चेत्प्रवृत्तिर्भविष्यति । स्तनंधयप्रवृत्तिश्चाप्येवमायाऽऽपतिष्यति ॥ ततश्च वीतरागादिजन्मादर्शनलक्षणम् । श्रान्तं जन्मान्तरे लिङ्गं अश्रान्तो बाह्यडिण्डिमः ॥
488 मानमेयरहस्यश्लोकवार्तिके पूर्वाभ्यासेन लोके स्युः हर्षशोकभयादयः । जातमात्रस्य ते दृष्टाः पूर्वाभ्यासनिबन्धनाः ॥ पद्मादिषु प्रबोधाद्याः विकारा भूतसंश्रयाः । शीतोष्णवर्षाकालादिनिमित्ता इति निश्चिताः ॥ अयस्कान्ताभिगमनमयसो यत्प्रदृश्यते । अन्यत्र वृत्त्यभावेन तत्स्वभावादिति स्थितम् ॥ प्रवृत्तिस्तार्किकैस्तस्माद्दोषादेवेति सूत्रितम् । तथैव लोकानुभवोऽप्यनुकूलोऽवकल्पते ॥ तत्र प्रवर्तकं ज्ञानं वैदिकं वाऽथ लौकिकम् । कीदृशं त्विति जिज्ञासा सामान्येन प्रवर्तते ॥ स्वतन्त्रा परतन्त्रेति प्रवृत्तिर्द्विविधा मता । आद्या भवतु रागेण विधिनैव त्वनन्तरा ॥ वैधविज्ञानवैमत्यात् विध्यर्थोऽपि विभिद्यते । ततो वाक्यार्थविमतिः सर्वे संगृह्यतेऽत्र तत् ॥ फलार्था हि क्रिया लोके पुरुषार्थं फलं मतम् । पुरुषश्च क्रियार्थस्स्यात् इत्येवं बद्धशृङ्खले ॥ चक्रेऽत्र कस्य प्राधान्यं कस्य वाक्यार्थतेतिच । प्रवर्तकं किमत्रस्यात् इति संशेरते बुधाः ॥ 3 लिङ्गादिशब्द एवेति जरन्मीमांसका विदुः । तद्व्यापारात्मिका शब्दभावनेति कुमारिलाः ॥
वाक्यार्थवादः 48 तदर्थस्तु नियोगोऽस्तीत्याहुः टीकाकृतः पुनः । तदर्थः कार्य इत्याहुरन्ये प्राभाकरास्तु ते ॥ इष्टसाधनता याऽस्ति धात्वर्थे सेति मण्डनः । पुंसां नेष्टाऽभ्युपायत्वात्क्रियास्वन्यः प्रवर्तकः ॥ प्रवृत्तिहेतुं धर्मं चेत्येषा विधिविवेकवाक् । फलं स्वर्गादिरेवेति नैयायिकशिरोमणिः ॥ यमर्थमधिकृत्यात्र पुरुषः संप्रवर्तते । तत्प्रयोजनमित्थं हि सूत्रयामास गौतमः ॥ प्रवर्तिका क्रियैवेति प्रायश्शाब्दिकसम्मता । क्रियैव वाक्यार्थ इति मुनिरप्याह बादरिः ॥ इष्टस्य कृत्यधीनात्मलाभलक्षणकार्यता । प्रवर्तिकेति वेदान्तवादिनो न्यायवेदिनः ॥ आप्तस्य हितकामस्य नियोगं केचिदूचिरे । यतश्श्रुतिस्स्मृतिरपि नियोगस्सर्वशासितुः ॥ आप्ताभिप्रायमाचार्याः प्राहुश्चोदयनादयः । वेदस्य पौरुषेयत्वे मानं चापि विधिं विदुः ॥ अज्ञातज्ञापनं वाऽथवाऽप्रवृत्तप्रवर्तनम् । अथाप्राप्तक्रियाकर्तृसंबन्ध इति कल्पनाः ॥ उद्योगमपरे प्राहुरात्मनस्स्पन्दलक्षणम् । तत्तन्मतानुरोधेन विध्यर्थोऽत्र विभज्यते ॥ M.R. 62
वाक्यज्ञाने हि वाक्यार्थविज्ञानमवकल्पते । ततः प्रस्तूयते वाक्यचिन्ता प्राच्यविचिन्तिता ॥ (100) वाक्यवादः. 1 अथात्र वैयाकरणसम्प्रदायस्य संग्रहः । एष वाक्यपदीयाख्यग्रन्थसारः प्रकाश्यते ॥ अखण्डं वाक्यमित्येके सखण्डमिति चापरे । संघातवर्तिनी जातिः एकोऽनवयवः स्वनः ॥ तथा बुद्ध्यनुसंहारोऽखण्डं त्रेधा विकल्प्यते । क्रमस्संघात आख्यातशब्द आद्यपदं तथा ॥ पृथक्सर्वपदं चेति सखण्डं पञ्चधा मतम् । अष्टौ वाक्यविकल्पास्ते शाब्दिकाचार्यसम्मताः ॥ 2 स्फोटवादोऽखण्डपक्षः स्फोटश्शब्दः ध्वनिः पुनः । तद्गुणः दीपरुचिवत् स्वरव्यञ्जनलक्षणः ॥ बाह्य आभ्यन्तरश्चेति स स्फोटो द्विविधो मतः । जातिव्यक्तिप्रभेदेन बाह्यो द्विविध इष्यते ॥ संघातवर्तिनी जातिः बाह्यः प्रथम ईरितः । एकोऽनवयवश्शब्दः द्वितीयो व्यक्तिलक्षणः ॥ यदन्तरश्शब्दतत्त्वं तु नादैरेकं प्रकाशितम् । स स्यादाम्यन्तरः स्फोटः तदर्थोऽप्यस्ति चान्तरः ॥
वाक्यवादः 491 अर्थभागैस्तथैतेषां आन्तरोऽर्थः प्रकाश्यते । एकस्यैवात्मनो भेदौ शब्दार्थावपृथक्स्थितौ ॥ अतः प्रसिद्धरूपेण कालिदासेन कीर्तितम् । वागर्थाविव संपृक्तौ इति मङ्गलदैवतम् ॥ यश्च बुद्धयनुसंहारः स निरालम्बसोदरः । अखण्डपक्षे व्याख्यातं त्रिविधं वाक्यलक्ष्म ॥ ३ सखण्डे क्रमसंघाताविति यल्लक्षणद्वयम् । तत्सङ्गतं ह्यभिहितान्वयपक्षसमीक्षया ॥ त्रीणीतराण्यन्विताभिधानपक्षकटाक्षतः । वाक्यमेकतिङित्यादि वाक्यलक्षणवार्तिकम् ॥ अर्थैकत्वादेकवाक्यमिति सूत्रं च जैमिनेः । संघातपक्ष एवान्तर्भवितुं सम्यगर्हति ॥ भेदोवाऽप्यथ संसर्गो वाक्यार्थ इति चिन्तना । अर्थैकत्वादितिन्याये कृता भाष्ये च वार्तिके ॥ एवं वाक्यविकल्पेन वाक्यार्थोऽपि विकल्प्यते । तयोरपि च संबन्धः तदधीनो विकल्प्यते ॥ ४ तत्राखण्डपक्षे तु लक्षणेष्वपिच त्रिषु । प्रतिभा वाक्यार्थ इति तत्स्वरूपं निशाम्यताम् ॥ विच्छेदग्रहणेऽर्थानां प्रतिभाऽन्यैव जायते । वाक्यार्थ इति तामाहुः पदार्थैरुपपादिताम् ॥
[Header] 492 मानमेयरहस्यश्लोकवार्तिके
उपश्लेषमिवार्थानामाकरोत्यविचारिता । सार्वरूप्यमिवापन्ना विषयत्वेन वर्तते ॥ प्रमाणत्वेन तां लोकस्सर्वस्समुपगच्छति । व्यवहाराः प्रवर्तन्ते तिरश्चामपि तद्वशात् ॥ स्वरवृत्तिं विकुरुते मधौ पुंस्कोकिलः कथम् । जन्त्वादयः कुलायादेः करणे शिक्षिताः कथम् ॥ आहारप्रीतिविद्वेषप्लवनादिक्रियासु कः । जात्यन्वयप्रसिद्धासु प्रयोक्ता मृगपक्षिणाम् ॥ 5 सखण्डपक्षे वाक्यार्थः क्रमसंघातपक्षयोः । संसर्ग इति, संघातपक्षेऽप्यस्ति मतान्तरम् ॥ पदार्थ एव विश्रान्तः विशेषे वाक्यगोचरः । आख्यातशब्दपक्षे तु क्रिया वाक्यार्थ इष्यते ॥ प्रतिभा यत्प्रभूतार्था यामनुष्ठानमाश्रितम् । फलं प्रसूयेत यतः सा क्रिया वाक्यगोचरः ॥ संसृष्ट एव वाक्यार्थः तुर्यपञ्चमकल्पयोः । अभिधेयः पदार्थस्स्यात् वाक्यार्थस्तु प्रयोजनम् । इत्युक्तः फलवाक्यार्थवादस्साधारणो मतः । लक्षणानां च सर्वेषां वाक्यार्थाष्षडिमे मताः ॥ प्रतिभाचैव संसर्गः पदार्थश्च विशेषतः । पदार्थ एव संसृष्टः क्रिया चाथ प्रयोजनम् ॥
वाक्यवादः 493 अत्रान्विताभिधानं स्यात् क्रियासंसृष्टपक्षयोः । चतुर्ष्वप्यवशिष्टेषु पक्षेष्वभिहितान्वयः ॥ प्रतिभायां त्वेकरसा प्रतिपत्तिरुदेत्यतः । न तत्र काचिच्चर्चाऽस्ति मतयोरुभयोरपि ॥ ये मीमांसकवाक्यार्थविकल्पा भावनादयः । तेऽप्यत्रान्तर्भवन्तीति न स्यादधिककल्पना ॥ क्रियैव भावना तत्र प्रकृतिप्रत्ययार्थयोः । विवादः केवलं वैयाकरणानां तु तैस्सह ॥ नियोगाद्यास्तु वाक्यार्थाः लिङादियुतवाक्यगाः । न सर्ववाक्यविषया इति तेष्विह नादरः ॥ अनादितद्वाक्यार्थविकल्पोत्थैरुपप्लवैः । बहीरूपतयाऽध्यस्तैः क्रमवद्भिरिवाक्रमैः ॥ पदार्थैश्चित्रित इव विकल्पोल्लेखलक्षणः । आकारो बहिरध्यस्तः निरंशश्शाक्यसम्मतः ॥ वाक्यार्थो यः प्रायशोऽसौ प्रतिभायास्सहोदरः । अथातो वाक्यवाक्यार्थसंसर्गस्य विकल्पना ॥ 6 तत्रानवयवे स्फोटे तदर्थे प्रतिभात्मके । वाक्येऽप्यथच वाक्यार्थे संबन्धोऽध्यासलक्षणः ॥ एके तादात्म्यमिच्छन्ति परे परिणतिं विदुः । तद्विम्बप्रतिबिम्बत्वं वेति कैश्चिद्विकल्प्यते ॥
अवशिष्टेषु पक्षेषु वाच्यवाचकतात्मिका । मीमांसकानां दृष्ट्या तु संबन्धो योग्यता मता ॥ शाक्यदृष्ट्या तु शब्दार्थे बौद्धे विज्ञानवादतः । कार्यकारणभावाख्यस्संबन्ध इति निश्चितः ॥ बाह्यार्थे त्वथ वाक्यार्थे स च संकेतलक्षणः । इति तार्किकसिद्धान्त इति रीतिश्चतुष्टयी ॥ पदानि कल्पितानीति टीकाकारमतं स्मृतम् । वाक्यं तु कल्पितमिति पदकारमतं श्रुतम् ॥ अभेदपूर्वका भेदाः कल्पिता वाक्यवादिभिः । भेदपूर्वानभेदांस्तु मन्यन्ते पददर्शिनः ॥ 7 शब्दवित्संप्रदायेऽस्मिन् वाक्यं प्रायेण शोधितम् । अर्थवित्संप्रदायोऽपि तथा किंचिद्विचार्यते ॥ क्रियावाक्यार्थपक्षश्च बादर्याचार्यसम्मतः । शेषलक्ष्माधिकरणे जैमिनीये निरूपितः ॥ पदार्थाः किल वाक्यार्थभावमायान्ति संहताः । अपेक्षानुगुणान्योन्यव्यतिषङ्गविशेषतः ॥ साध्यं निष्पद्यमानत्वात् प्रधानमवगम्यते । तस्मात्तदेव वाक्यार्थः क्रियातो नापरं च तत् ॥ यजेत दद्याज्जुहुयात् अधीयीतेति बोधितः । क्रियां साध्यतया वेत्ति तां च लोकोऽनुतिष्ठति ॥
भावनावाक्यार्थः 499
क्रियैव तावत्कार्यात्मा प्रेरणात्मा फलार्थिता । प्रतीयते ततोऽन्यस्तु नियोगो नोभयात्मकः ॥ कुर्यादित्येवमादिभ्यः क्रियादिव्यतिरेकिणः । नार्थान्तरस्य संवित्तिः कस्यचित्प्रेरणात्मनः ॥ स चोदनामतिक्रमेत् यः क्रियां नानुतिष्ठति । यश्शब्दपरतन्त्रस्स्यात् शब्दप्रामाण्यवाद्यसौ ॥ फलाभिसन्धिहीनोऽपि कर्मसंस्कारसंस्कृतः । परिपक्ककषायस्स्यात् स्तोकस्तोकक्रमादसौ ॥ प्रपञ्चप्रविलापेन चोत्तमाधिक्रियायुतः । ज्ञातास्वादस्तमेवासौ पुमर्थं प्राप्तुमिच्छति ॥ विस्तरस्तु मतस्यास्य ज्ञेयो विधिविवेकतः । प्रायेणैते निष्प्रपञ्चनियोगन्यायवादिनः ॥ (101) भावनावाक्यार्थः. 1 वाक्यार्थभावनापक्षसारांशोऽथावधार्यताम् । भाव्यनिष्ठो भावकस्य व्यापारो भावना मता । सा शब्दभावनाऽथार्थभावनेत्यपिच द्विधा । विभज्य व्यवहारस्य विषयीक्रियते बुधैः ॥ पुंप्रवृत्त्यनुकूलात्मा व्यापारश्शब्दभावना । प्रवर्तना प्रेरणा सा नियोग इति कीर्त्यते ॥
496 मानमेयरहस्यश्लोकवार्तिके क्रियानुकूलः पुरुषव्यापारो ह्यर्थभावना । कृतिः प्रयत्न इत्यादिपर्यायपदशब्दिता ॥ लोकेऽस्मिन्नभिधाशब्दः शब्दव्यापारबोधकः । अतोऽभिधाभावनेति तामाहुश्शब्दभावनाम् ॥ भावना या तु पुरुषैरिष्टोपायतयाऽर्थ्यते । पुंव्यापारात्मिका सैषा कीर्त्यते चार्थभावना ॥ भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते । तत्सिद्धान्तकटाक्षेण भाव्येत्यादिपरिष्कृतिः ॥ सैव वाक्यस्यार्थ इति कुमारिलविनिर्णयः । वेदाद्गुरुनियोगाद्वा शासनाद्वा महीभुजाम् ॥ न सचेताः क्रियां कांचिद् अनुतिष्ठति निष्फलाम् । वस्तुतस्तु फलं तस्मात्प्रधानमवगम्यते ॥ सएव वाक्यार्थ इति वक्तुं युक्तं च यद्यपि । तथाऽपि काम्यमानत्वात् सिद्धं तन्नावगम्यते ॥ साध्यमानत्वपक्षे तु साक्षात्तत्सिद्धयवेदनात् । व्यापार एव तन्निष्ठः वाक्यवेद्य इतीष्यताम् ॥ अत एवहि वाक्यार्थे भावनां प्रतिजानते । यथोचितफलाढ्यां च त्रयसंबन्धबन्धुराम् ॥ आस्तां विधिपदं तावद्वर्तमानापदेशिनः । शब्दाद्यजत इत्यादेः भावना न न गम्यते ॥
भावनावाक्यार्थः 497 2 क्रियाविशेष एवायं व्यापारो ज्ञातुरात्मनः । स्पन्दात्मकबहिर्भूतक्रियाक्षणविलक्षणः ॥ 3 पुरुषस्य प्रयत्नो वा भावनेत्यभिधीयते । औदासीन्यदशाऽपायं पुमान् येन प्रपद्यते ॥ स यत्नो यागदानादिक्रियानिर्वृत्तिकारणम् । तस्य तद्व्यतिरेक्तत्वं प्रायस्सर्वोऽनुमन्यते ॥ न चायमात्मधर्मोऽपि न विभुत्वादिवन्मतः । साध्यरूपाभिसम्बन्धात् धत्ते विषयतां विधेः ॥ 4 अन्ये धात्वर्थसामान्यं भावनामभ्युपागमन् । यागदानाद्यनुस्यूतं रूपं गोत्वादिजातिवत् ॥ धात्वर्थव्यतिरेकेण यद्यप्येषा न लभ्यते । तथाऽपि सर्वसामान्यरूपेणान्या प्रतीयते ॥ सा धातोः प्रत्ययाद्वाऽपि भावनाऽवगता सती । अपेक्षतेऽशत्रितयं किं केन कथमित्यदः ॥ सिद्धसाध्यस्वभावाभ्यां धात्वर्थो द्विविधस्तयोः । अन्योत्पादानुकूलात्मा भावना साध्यरूपिणी ॥ सिद्धभावस्तु यस्तस्याः स घञादिनिबन्धनः । इत्याहुरपरे प्राज्ञाः भावनातत्त्ववेदिनः ॥ भावनैवहि वाक्यार्थः सर्वत्राख्यातवत्तया । अनेकगुणजात्यादिकारकार्थानुरञ्जिता ॥ M. R. 63
498 | मानमेयरहस्यश्लोकवार्तिके
एकयैवहि बुद्ध्याऽसौ गृह्यते चित्ररूपया । पदार्थाहितसंस्कारचित्रपिण्डप्रसूतया ॥ पदात्प्रभृति या चैषा प्रज्ञा ज्ञातुर्विजृम्भते । पुष्पिता सा पदार्थेषु वाक्यार्थेषु फलिष्यति ॥ 5 अभिधाभावनामाहुरन्यामेव लिङादयः । अर्थात्मा भावना त्वन्या सर्वाख्यातेषु दृश्यते ॥ प्रयत्नव्यतिरिक्त्तार्थभावना तु न शक्यते । वक्तुमाख्यातवाच्येति सिद्धान्तः राणकेरितः ॥ कार्यत्वान्तःप्रविष्टा या कृतिस्सैवहि भावना । स्वर्गादेर्भवितुर्भावयित्री स्याद्भावकाश्रिता ॥ तेन व्यापारसामान्यं पुंव्यापारनिबन्धनम् । इति सिद्ध्या स स्वभाववादो लौकायतो हतः ॥ विधेर्लक्षणमेतावदप्रवृत्तप्रवर्तनम् । अतिप्रसङ्गदोषेण नाज्ञातज्ञापनं विधिः ॥ णिजर्थात्तु लिङर्थोऽसौ प्रेरणाऽस्ति विलक्षणा । ज्ञापकव्यापार एष स तु कारकसंश्रितः ॥ प्रवर्तनस्मृतिः प्राप्ते प्रैष इत्यभिधीयते । अप्राप्ते प्रेषणं सर्वं विधित्वं प्रतिपद्यते ॥ विधिः प्रवर्तकत्वाख्यस्वरूपस्योपपत्तये । स्वर्गं साध्यतया यागं साधनत्वेन बोधयेत् ॥
नियोगवाक्यार्थः 49 अथापि शाब्दी शक्तिस्सा प्रधानमिति गम्यते । अतस्त्विष्टोपायतैषा धात्वर्थस्थेति सूरयः ॥ वाक्यार्थाधिकृतावस्य विस्तरः श्लोकवार्तिके । शाब्दबोधक्रमस्त्वेष खण्डदेवादि Bour शोधितः ॥ 6 यजेतेत्यत्रचाख्यातं लिङ्त्वेनाख्याति भावनाम् अभिधाख्यां तथैवार्थीमाख्यातत्वेन बोधयेत् ॥ उभे अंशत्रययुते इति विश्रुतमेव तत् । विशिष्टशाब्दीप्रयोज्या तादृश्यार्थीति गम्यते ॥ प्रयोज्यत्वं स्वविषयज्ञानजन्याऽनुमा तु या । तत्प्रयोज्यत्वमनुमा त्वेतादृश्यत्र गम्यताम् ॥ यागो मदिष्टहेतुस्स्यात् इत्याकारा तया पुनः । पुमान् प्रवर्तत इति प्रयोज्यत्वं निरूपितम् ॥ यागस्य चेष्टहेतुत्वमेव प्राशस्त्यलक्षणम् । स शब्दभावनांशस्सन् एवमत्रोपयुज्यते ॥ (102) नियोगवाक्यार्थः. 1 नियोगवाक्यार्थवादिटीकाकारमतं पुनः । प्रदर्श्यतेऽथ यच्छिष्याः कार्यवाक्यार्थवादिनः ॥ कर्ता संख्या तथाचार्थभावना शब्दभावना । तस्याः कृतिः तदाख्यानं चेत्येतदतिदुर्भरम् ॥
०० मानमेयरहस्यश्लोकवार्तिके तस्मान्नियोग एकोऽर्थः कालत्रयविवर्जितः । नियुक्तोऽस्मीत्यनुभवात् प्रेरणात्माऽथ तद्धिया ॥ आत्माकूतविशेषो यः आत्मधर्मस्स जायते । भौतिकस्पन्दहेतुस्सः न मानान्तरगोचरः ॥ औदासीन्यप्रच्युतिर्वा योद्योग इति कीर्त्यते । आद्या प्रवृत्तिराकूतं चिकीर्षेत्यादिनामभाक् ॥ शब्दस्यैव लिङादेर्यैः बुधैः प्रेरकतेष्यते । तेऽत्यन्तभीरवस्तस्मिन् संगतिग्रहणालसाः ॥ २ कार्यत्वावगतिस्त्वार्थी शाब्दी प्रेरकतामतिः । तस्मात्प्रेरक एवासौ प्रधानमिति निर्णयः ॥ अन्ये तु शाब्दं कार्यत्वं नियोगस्येति मन्वते । प्रेरकत्वं त्वार्थमिति नातस्स्याच्छब्दगौरवम् ॥ ३ अनुबन्धद्वयं तस्य विषयश्चाधिकार्यपि । नियोगः कस्य कुत्रेति तदाकाङ्क्षे इमे उभे ॥ विषयः फलहेतुश्चेत्फलकामोऽधिकार्यतः । फलं पुंबुद्धिमूलं तत् न शास्त्रीयमिति स्थितिः । यावज्जीवं सुखं जीवेदित्यादीच्छानिवारकम् । यावज्जीवं चाग्निहोत्रं कर्तव्यमिति शासनम् ॥ न दैन्यमीदृशं सोढुं स्वतन्त्रं शास्त्रमर्हति । यत्प्रवर्तयितुं पुंसः न शक्नोति फलं विना ॥