भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 535, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 535

वाक्यवादः 493 अत्रान्विताभिधानं स्यात् क्रियासंसृष्टपक्षयोः । चतुर्ष्वप्यवशिष्टेषु पक्षेष्वभिहितान्वयः ॥ प्रतिभायां त्वेकरसा प्रतिपत्तिरुदेत्यतः । न तत्र काचिच्चर्चाऽस्ति मतयोरुभयोरपि ॥ ये मीमांसकवाक्यार्थविकल्पा भावनादयः । तेऽप्यत्रान्तर्भवन्तीति न स्यादधिककल्पना ॥ क्रियैव भावना तत्र प्रकृतिप्रत्ययार्थयोः । विवादः केवलं वैयाकरणानां तु तैस्सह ॥ नियोगाद्यास्तु वाक्यार्थाः लिङादियुतवाक्यगाः । न सर्ववाक्यविषया इति तेष्विह नादरः ॥ अनादितद्वाक्यार्थविकल्पोत्थैरुपप्लवैः । बहीरूपतयाऽध्यस्तैः क्रमवद्भिरिवाक्रमैः ॥ पदार्थैश्चित्रित इव विकल्पोल्लेखलक्षणः । आकारो बहिरध्यस्तः निरंशश्शाक्यसम्मतः ॥ वाक्यार्थो यः प्रायशोऽसौ प्रतिभायास्सहोदरः । अथातो वाक्यवाक्यार्थसंसर्गस्य विकल्पना ॥ 6 तत्रानवयवे स्फोटे तदर्थे प्रतिभात्मके । वाक्येऽप्यथच वाक्यार्थे संबन्धोऽध्यासलक्षणः ॥ एके तादात्म्यमिच्छन्ति परे परिणतिं विदुः । तद्विम्बप्रतिबिम्बत्वं वेति कैश्चिद्विकल्प्यते ॥