मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 539, कुल 672 में से
संदर्भ में पढ़ेंभावनावाक्यार्थः 497 2 क्रियाविशेष एवायं व्यापारो ज्ञातुरात्मनः । स्पन्दात्मकबहिर्भूतक्रियाक्षणविलक्षणः ॥ 3 पुरुषस्य प्रयत्नो वा भावनेत्यभिधीयते । औदासीन्यदशाऽपायं पुमान् येन प्रपद्यते ॥ स यत्नो यागदानादिक्रियानिर्वृत्तिकारणम् । तस्य तद्व्यतिरेक्तत्वं प्रायस्सर्वोऽनुमन्यते ॥ न चायमात्मधर्मोऽपि न विभुत्वादिवन्मतः । साध्यरूपाभिसम्बन्धात् धत्ते विषयतां विधेः ॥ 4 अन्ये धात्वर्थसामान्यं भावनामभ्युपागमन् । यागदानाद्यनुस्यूतं रूपं गोत्वादिजातिवत् ॥ धात्वर्थव्यतिरेकेण यद्यप्येषा न लभ्यते । तथाऽपि सर्वसामान्यरूपेणान्या प्रतीयते ॥ सा धातोः प्रत्ययाद्वाऽपि भावनाऽवगता सती । अपेक्षतेऽशत्रितयं किं केन कथमित्यदः ॥ सिद्धसाध्यस्वभावाभ्यां धात्वर्थो द्विविधस्तयोः । अन्योत्पादानुकूलात्मा भावना साध्यरूपिणी ॥ सिद्धभावस्तु यस्तस्याः स घञादिनिबन्धनः । इत्याहुरपरे प्राज्ञाः भावनातत्त्ववेदिनः ॥ भावनैवहि वाक्यार्थः सर्वत्राख्यातवत्तया । अनेकगुणजात्यादिकारकार्थानुरञ्जिता ॥ M. R. 63