मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 538, कुल 672 में से
संदर्भ में पढ़ें496 मानमेयरहस्यश्लोकवार्तिके क्रियानुकूलः पुरुषव्यापारो ह्यर्थभावना । कृतिः प्रयत्न इत्यादिपर्यायपदशब्दिता ॥ लोकेऽस्मिन्नभिधाशब्दः शब्दव्यापारबोधकः । अतोऽभिधाभावनेति तामाहुश्शब्दभावनाम् ॥ भावना या तु पुरुषैरिष्टोपायतयाऽर्थ्यते । पुंव्यापारात्मिका सैषा कीर्त्यते चार्थभावना ॥ भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते । तत्सिद्धान्तकटाक्षेण भाव्येत्यादिपरिष्कृतिः ॥ सैव वाक्यस्यार्थ इति कुमारिलविनिर्णयः । वेदाद्गुरुनियोगाद्वा शासनाद्वा महीभुजाम् ॥ न सचेताः क्रियां कांचिद् अनुतिष्ठति निष्फलाम् । वस्तुतस्तु फलं तस्मात्प्रधानमवगम्यते ॥ सएव वाक्यार्थ इति वक्तुं युक्तं च यद्यपि । तथाऽपि काम्यमानत्वात् सिद्धं तन्नावगम्यते ॥ साध्यमानत्वपक्षे तु साक्षात्तत्सिद्धयवेदनात् । व्यापार एव तन्निष्ठः वाक्यवेद्य इतीष्यताम् ॥ अत एवहि वाक्यार्थे भावनां प्रतिजानते । यथोचितफलाढ्यां च त्रयसंबन्धबन्धुराम् ॥ आस्तां विधिपदं तावद्वर्तमानापदेशिनः । शब्दाद्यजत इत्यादेः भावना न न गम्यते ॥