मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 542, कुल 672 में से
संदर्भ में पढ़ें०० मानमेयरहस्यश्लोकवार्तिके तस्मान्नियोग एकोऽर्थः कालत्रयविवर्जितः । नियुक्तोऽस्मीत्यनुभवात् प्रेरणात्माऽथ तद्धिया ॥ आत्माकूतविशेषो यः आत्मधर्मस्स जायते । भौतिकस्पन्दहेतुस्सः न मानान्तरगोचरः ॥ औदासीन्यप्रच्युतिर्वा योद्योग इति कीर्त्यते । आद्या प्रवृत्तिराकूतं चिकीर्षेत्यादिनामभाक् ॥ शब्दस्यैव लिङादेर्यैः बुधैः प्रेरकतेष्यते । तेऽत्यन्तभीरवस्तस्मिन् संगतिग्रहणालसाः ॥ २ कार्यत्वावगतिस्त्वार्थी शाब्दी प्रेरकतामतिः । तस्मात्प्रेरक एवासौ प्रधानमिति निर्णयः ॥ अन्ये तु शाब्दं कार्यत्वं नियोगस्येति मन्वते । प्रेरकत्वं त्वार्थमिति नातस्स्याच्छब्दगौरवम् ॥ ३ अनुबन्धद्वयं तस्य विषयश्चाधिकार्यपि । नियोगः कस्य कुत्रेति तदाकाङ्क्षे इमे उभे ॥ विषयः फलहेतुश्चेत्फलकामोऽधिकार्यतः । फलं पुंबुद्धिमूलं तत् न शास्त्रीयमिति स्थितिः । यावज्जीवं सुखं जीवेदित्यादीच्छानिवारकम् । यावज्जीवं चाग्निहोत्रं कर्तव्यमिति शासनम् ॥ न दैन्यमीदृशं सोढुं स्वतन्त्रं शास्त्रमर्हति । यत्प्रवर्तयितुं पुंसः न शक्नोति फलं विना ॥