मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 543, कुल 672 में से
संदर्भ में पढ़ेंनियोगवाक्यार्थः 50 4 नित्याधिकारे तत्कर्म वेदोऽसौ शुचिजीविनः । विधत्तेऽतोऽफलमपि कार्यमित्येव कुर्वते ॥ विहिताकरणायत्तप्रत्यवायापनुत्तये । कर्तव्यमिति सिद्धान्तः भाट्टैः पर्यायतः कृतः ॥ तदेकदेशिनां पण्डापूर्वमिष्टं फलात्मकम् । स्वतएव पुमर्थत्वं तस्य पण्डत्वमिष्यते ॥ 5 कामाधिकारे तु नियोज्यान्यथाऽनुपपत्तितः । फलक्लृप्तिः तत्प्रवृत्तिस्तस्माल्लिप्सार्थलक्षणा ॥ अतएवाधर्मतेति श्येनादेरिति निर्णयः । अर्थशब्दः प्रयुक्तोऽतः तादृशानर्थवारकः ॥ नित्येतिकर्तव्यतांशे शास्त्रमेव प्रवर्तकम् । अतोऽग्नीषोमीयहिंसा नाधर्म इति ते विदुः ॥ 6 प्रतिषेधाधिकारेऽपि प्रत्यवायो न कल्प्यते । निषेध्यविषयादेव लब्धत्वादधिकारिणः ॥ तत्रास्मिन् कल्प्यमानेऽपि नरकादिफलोदये । अवैधत्वं प्रसज्येत न ह्याकाङ्क्षेदृशी विधेः ॥ विधेरपेक्षे द्वे एव नियोज्यविषयौ प्रति । तत्पूरणेन तृप्तस्तु न वाञ्छति ततोऽधिकम् ॥ नियोज्यस्तावदेतावान् क्रुद्धोऽरिहननोद्यतः । विषयस्तन्निवृत्तिस्स्यान्नियोगोऽतोऽत्र पुष्कलः ॥