मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 533, कुल 672 में से
संदर्भ में पढ़ेंवाक्यवादः 491 अर्थभागैस्तथैतेषां आन्तरोऽर्थः प्रकाश्यते । एकस्यैवात्मनो भेदौ शब्दार्थावपृथक्स्थितौ ॥ अतः प्रसिद्धरूपेण कालिदासेन कीर्तितम् । वागर्थाविव संपृक्तौ इति मङ्गलदैवतम् ॥ यश्च बुद्धयनुसंहारः स निरालम्बसोदरः । अखण्डपक्षे व्याख्यातं त्रिविधं वाक्यलक्ष्म ॥ ३ सखण्डे क्रमसंघाताविति यल्लक्षणद्वयम् । तत्सङ्गतं ह्यभिहितान्वयपक्षसमीक्षया ॥ त्रीणीतराण्यन्विताभिधानपक्षकटाक्षतः । वाक्यमेकतिङित्यादि वाक्यलक्षणवार्तिकम् ॥ अर्थैकत्वादेकवाक्यमिति सूत्रं च जैमिनेः । संघातपक्ष एवान्तर्भवितुं सम्यगर्हति ॥ भेदोवाऽप्यथ संसर्गो वाक्यार्थ इति चिन्तना । अर्थैकत्वादितिन्याये कृता भाष्ये च वार्तिके ॥ एवं वाक्यविकल्पेन वाक्यार्थोऽपि विकल्प्यते । तयोरपि च संबन्धः तदधीनो विकल्प्यते ॥ ४ तत्राखण्डपक्षे तु लक्षणेष्वपिच त्रिषु । प्रतिभा वाक्यार्थ इति तत्स्वरूपं निशाम्यताम् ॥ विच्छेदग्रहणेऽर्थानां प्रतिभाऽन्यैव जायते । वाक्यार्थ इति तामाहुः पदार्थैरुपपादिताम् ॥