मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 549, कुल 672 में से
संदर्भ में पढ़ेंकार्यवाक्यार्थः ५० अभिधेयं लिङादीनामपूर्वं कार्यमेव तत् । अपूर्वेण क्रियाकार्यं नित्यं संबद्धमित्यतः ॥ लिङादयः क्रियाकार्ये बुधैर्लाक्षणिका मताः । तत्रान्विताभिधावादे सर्वं लाक्षणिकं मतम् ॥ लक्षणानाभिविज्ञानं मुख्यार्थानवधारणात् । येतु मुख्यार्थकुशलाः तेषां लाक्षणिकत्वधीः ॥ तस्मान्मानान्तरावेद्यं कार्यमर्थान्तरान्वितम् । वेदार्थ इति सिद्धान्तः प्रभाकरगुरोर्मतः ॥ वाक्यार्थमातृकायां च श्रीभाष्येऽपिच विस्तरः । शाब्दबोधक्रमस्त्वेषः कार्यवाक्यार्थवादिनाम् ॥ 8 यजेतेति पदात्कार्यप्रधानं यागगोचरम् । स्यात्कार्यं यागविषयमिति बोधस्स चादिमः ॥ ततश्च यागविषयं कार्यं स्यात्स्वर्गसाधनम् । इत्यर्थाध्याहाराविद्भिः द्वितीयो बोध इष्यते ॥ स्वर्गकामपदश्रुत्या स्वर्गकामनियोज्यकम् । प्रागुक्तद्विदळं कार्यमिति स स्यात्तृतीयकः ॥ ततश्च स्वर्गकामीयकृतिसाध्यमिति क्रमात् । प्रागुक्तत्रिदळं कार्यमिति बोधस्तुरीयकः ॥ नापूर्वे स्वर्गहेतुत्वं यागे तेन विना भवेत् । इति चानुपपत्तेस्तु प्रतिसन्धानसंभवे ॥