मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 556, कुल 672 में से
संदर्भ में पढ़ें14 मानमेयरहस्यश्लोकवार्तिके करणांशोऽपि लिप्सातः प्रवृत्तिर्यद्युपेयते । इतिकर्तव्यतांशे तु शास्त्रादिति न युक्तिमत् ॥ नहि तत्करणं शुद्धं स्वफलायोपकल्पते । सेतिकर्तव्यताकं हि करणं करणं विदुः ॥ उभयत्रापि लिप्सातः सतिचैवं प्रवर्तने । अग्नीषोमीयहिंसादेः स्यादेव श्येनतुल्यता ॥ तदुत्सर्गापवादाख्यन्यायस्यैव विमर्शनात् । न हिंस्यादिति सामान्यागोचरत्वावधारणा ॥ 6 यस्त्वाह प्रेरकत्वं चेत्फलं दर्शयतो विधेः । प्रत्यक्षादिसमानत्वात् स्वातन्त्र्यं तस्य हीयते ॥ स वाच्यः फलशून्यत्वे सुतरामस्वतन्त्रता । यद्रिक्तमर्थं मूढोऽपि न कश्चिदनुतिष्ठति ॥ फलस्यैवेष्यमाणस्य पश्यन् प्रेरकतामतः । यमर्थमधिकृत्येति सूत्रं व्यधित सूत्रकृत् ॥ 7 गुणप्रधानानियमात् मिथस्संसृष्टलक्षणः । पदार्थ एव वाक्यार्थः स्यात्प्रयोक्तृविवक्षया ॥ क्वचित्साक्षात्पदोपात्तं क्वचित्प्रकरणागतम् । क्वचिदालोचनागम्यं फलं सर्वत्र गम्यते ॥ तस्मात्फलस्य साध्यत्वात् सर्वत्र तदवर्जनात् । क्रियादीनां च तादर्थ्यात् तस्य वाक्यार्थतेष्यते