मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 557, कुल 672 में से
संदर्भ में पढ़ेंआप्ताभिप्रायवाक्यार्थः 51 ४ प्रतिभा खलु विज्ञानं तच्च शब्देन जन्यते । नतु शब्दस्य विषयः रूपधीरिव चक्षुषः ॥ ५ सुखं हि जगतामेव काम्यं धर्मेण जायते । अधर्मजन्यं दुःखं स्यात् प्रतिकूलं सचेतसाम् ॥ चिकीर्षा कृतिसाध्यत्वप्रकारेच्छा तु या भवेत् । तद्धेतुः कृतिसाध्येष्टसाधनत्वमतिर्भवेत् ॥ बलवद्विष्टहेतुत्वमतिस्स्यात्प्रतिबंधिका । तदहेतुत्वबुद्धेस्तु हेतुत्वं कस्यचिन्मते ॥ चिकीर्षा कृतिसाध्येष्टसाधनत्वमतिस्तथा । उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं भवेत् ॥ एवं प्रवृत्तिजननात् विधेरपि तदर्थता । नित्येऽपि ब्रह्मलोकादेस्संप्राप्तिरवधार्यते ॥ आप्ताभिप्रायमाचार्याः विध्यर्थं लाघवाद्विदुः । वेदस्य पौरुषेयत्वे मानं चापि विधिं विदुः ॥ इति नैयायिकमतसारांशो विशदीकृतः । अथ वेदान्तसिद्धान्ते विशेषः प्रतिपाद्यते ॥ (106) आप्ताभिप्रायवाक्यार्थः. 1 इष्टस्य कृत्यधीनात्मलाभलक्षणकार्यता । लिङर्थ इति वेदार्थसंग्रहे भाष्यकृद्वचः ॥