मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 558, कुल 672 में से
संदर्भ में पढ़ें16 मानमेयरहस्यश्लोकवार्तिके प्राभाकरा ये विख्यातास्ते वाच्यापूर्ववादिनः । कौमारिलाः पुनः कल्प्यापूर्ववादिन ईरिताः ॥ अतिरिक्तार्थवाच्यत्वकल्पनायामपीष्यते । श्रुतैव देवताप्रीतिः नापूर्वं क्वचिदश्रुतम् ॥ इष्टसाधनतां प्राहुर्लिङर्थं मण्डनादयः । अयं त्विष्टाभ्युपायोऽतः कार्यमित्यध्यवस्यति ॥ कार्यत्वमिष्टोपायत्वादन्तरङ्गमितीतरे । लघीयसी साध्यताऽतः देवताप्रीत्यपेक्षया ॥ तत्रैव शब्दशक्तिः स्यादिति श्रीभाष्यकृन्मतम् । आप्तस्य हितकामस्य नियोगोऽपि तदाहृतः ॥ श्रीपूर्णप्रज्ञसिद्धान्तोऽप्येवमेव प्रतीयते । अनुव्याख्यानवाक्यं तु तदीयमवधार्यताम् ॥ कार्यता च न काचित्स्यादिष्टसाधनतां विना । कार्यं साधनमिष्टस्य भगवानिष्टदेवता ॥ इति तस्माद्देवता तु येषां स्यान्निरनुग्रहा । क्लिश्यन्ति ते वै प्रायेण नान्य इत्यत्र निर्णयः । 2 अत्र श्रीभाष्यकारीयापूर्वसिद्धान्तखण्डनम् । संगृह्यतेऽथ विशदबोधाय विदुषामपि ॥ आचार्यकाधिकारार्थाऽधीतिस्स्यादिति संशये । अर्थज्ञानाधिकारार्थाऽथातो धर्मेत्यसूत्रयत ॥