मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 559, कुल 672 में से
संदर्भ में पढ़ेंआप्ताभिप्रायवाक्यार्थः 517 विधिस्स्वाध्याय इत्यादिः यावत्स्वाध्यायगोचरः अथेत्यानन्तर्यमपि यावत्तत्प्रतियोगिकम् ॥ अत इत्यर्थपरता यावद्वेदावलम्बिनी । जिज्ञास्यताऽपि कृत्स्नस्य वेदार्थस्येति गम्यते ॥ अभिधा चोदना चेति श्रुतिरेषा द्विधा मता । आद्या सिद्धपरा ज्ञेया द्वितीया कार्यतत्परा ॥ अव्युत्पत्त्यनपूर्वत्वाप्रयोजननिबन्धनम् । अप्रामाण्यं विदुस्सिद्धे विबुधा ह्यभिधाश्रुतेः ॥ चोदनाश्रुतिरेवैषा व्युत्पत्त्यादिपरिष्कृता । प्रमाणं स्यात्ततश्चाद्या लिङ्गेऽन्तर्भावमर्हति ॥ चोदनालक्षणः कार्यं धर्मो वेदार्थ इत्यतः । वेदार्थः कार्यरूपस्स्यादिति व्याख्या गुरोर्मता ॥ ततश्चोपनिषद्व्याख्याशास्त्रं नारम्भमर्हति । यस्मादुपनिषच्छब्दः सिद्धवस्त्वेकगोचरः ॥ अत्रोच्यते ब्रह्मविद्भिः ब्रह्माप्यानन्दलक्षणम् । शास्त्रेणैवावसेयं च व्युत्पन्नं चाप्तवाक्यतः ॥ तस्मात्साध्यपरा यद्वत्तथा सिद्धपराऽपिच । श्रुतिः प्रमाणं तेनार्धजरतीयं न युक्तिमत् ॥ इति सिद्धान्तानुरोधात्कार्यतत्त्वमनूद्यते । प्राक्श्लोकैस्सप्तभिः पश्चात् सप्तभिस्तन्निरस्यते