भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 560, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 560

518 मानमेयरहस्यश्लोकवार्तिके

लोके हि सिद्धवस्तूनां ये शब्दाः प्रतिपादकाः । पश्चात्तनास्ते संदृष्टाः प्रतिपाद्यात् तथा यदा ॥ श्रुतिः सिद्धपराचेत्स्यात् प्रतिपाद्यादनन्तरा । ततश्चांपौरुषेयत्वं नित्यत्वं च न निर्वहेत् ॥ कृतिसाध्यं प्रधानं यत्तत्कार्यमिति गीयते । प्रामाण्यमपि वेदस्य तत्र व्युत्पत्तिसंभवात् ॥ आत्मसिद्धयनुकूलस्य नियोज्यस्य प्रसिद्धये । कुर्वत्स्वर्गादिकमपि प्रधानं कार्यमेव नः ॥ कृतिसाध्यत्वमिष्टत्वं कृत्युद्देश्यत्वमेवच । कार्यस्य त्रय आकारा इत्याहुः कार्यवादिनः ॥ साधारणौ द्वावाकारौ भावार्थफलयोरिति । तृतीयोऽसौ नियोगस्य त्वसाधारण इष्यते ॥ कार्यं हि तच्च प्रथममनन्यार्थं प्रतीयते । ततश्चान्यार्थता युक्ता भृत्येष्टप्रदभूपवत् ॥ ३ स च किं कृतिकर्मत्वं किंवा प्रेरकता मता । अनुकूलत्वमथवा शेषित्वमथवा मतम् ॥ प्रयोजनत्वमथवा प्राधान्यमथवा कृतेः । अथवा सुखरूपत्वं पुरुषार्थत्वमेववा ॥ नाद्यत्रयं कृत्यधीनसिद्धता वेष्टताऽपिवा । फलभावार्थयोरेव तदेतत्पर्यवस्यति ॥