भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 561, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 561

आत्मभिप्रायवाक्यार्थः 51 शेषित्वं दुर्निरूपं स्यात् पञ्चमं पूर्ववद्भवेत् । षष्ठं त्वसंभवग्रस्तं सप्तमं लोकदूषितम् ॥ अष्टमं निष्प्रमाणं स्यात् अपूर्वं दुर्वचं ततः । कर्तृव्यापारसाध्यत्वमात्रं धात्वर्थसंगतम् ॥ लिङादेवाच्यमित्याहुरनुशासनवेदिनः । एवं वाच्यापूर्ववादो यथाऽन्येषां न संमतः ॥ तथा कल्प्यापूर्ववादः सेश्वरैरधरीकृतः । इति श्रीभाष्यकारीयापूर्ववादार्थसंग्रहः ॥ 4 अथान्विताभिधानाभिहितान्वयविवादयोः । आद्यः प्राभाकराभीष्टः ह्यन्त्यः कौमारिलादृतः आदौ पदानि श्रूयन्ते ततो व्युत्पत्तिमार्गतः । परस्परानन्विता ये पदार्थाः स्मारयन्ति तान् ॥ आकाङ्क्षादिपरामर्शः स्मृतेष्वर्थेषु जायते । न्यायप्रवृत्तिस्तत्रैव स्वात्मानं लब्धुमर्हति ॥ वचनव्यक्तिभेदाभिव्यक्तिस्संपाद्यते तया । सम्यङ्न्यायानुग्रहेण तैर्वाक्यार्थोऽभिधीयते ॥ नानापदार्थसहितप्रधानेकार्थलक्षणः । पदजातं श्रुतं सर्वं स्मारितानन्वितार्थकम् ॥ न्यायसंपादितव्यक्ति पश्चाद्वाक्यार्थबोधकम् । अन्वितार्थाभिधायित्वे पदानां शिक्षिते सति ॥