मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 562, कुल 672 में से
संदर्भ में पढ़ें520 मानमेयरहस्यश्लोकवार्तिके विशिष्टा वक्तृधीर्ज्ञातुं शक्यते नान्यथा पुनः । एषोऽन्विताभिधानस्य प्रकारः गुरुसम्मतः ॥ 5 अथ भट्टस्याभिमतः प्रोच्यतेऽभिहितान्वयः । पदैरेवाभिधीयन्ते पदार्थाः ते पृथक्पृथक् ॥ विशेषव्यक्त्यभावात्स्मारकान्न विशिष्यते । योग्यत्वेन परामृष्टाः तेऽर्था अभिहिताः पुनः ॥ विशेषसंसर्गरूपं वाक्यार्थं बोधयन्ति तम् । पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते ॥ यदाधिक्यं भवेत्किंचित् तत्पदस्य न गोचरः । न पदव्यावृतिस्तत्र चार्थैरेवार्थसिद्धितः ॥ यथा कविभिरालोच्यमाना अर्थाः परस्परम् । अन्विताः केवलं लोकोत्तरवाक्यस्य हेतवः ॥ अत एव हि वाक्यार्थमेते लाक्षणिकं विदुः । यस्मादभिहितैरर्थैः संबन्धात्सोऽवगम्यते ॥ नाकृतिः प्रथमं ज्ञाता व्यक्तिः पश्चात्प्रतीयते । किं तु प्रतीयते जातिः व्यक्त्यैव सहिता यथा तथाऽन्वयोऽप्यधिगतस्त्वन्वितस्यावबोधकः । इत्यन्विताभिधायेष शब्द इत्युच्यते परैः ॥ कॢप्तमन्वितसामर्थ्यं पदार्थानां स्वभावतः । एकवाक्यतया तत्र कल्प्यं नियममात्रकम् ॥