मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 563, कुल 672 में से
संदर्भ में पढ़ेंआप्ताभिप्रायवाक्यार्थः पदार्थेष्वभिधावृत्तिः पदानां पर्यवस्यति । तात्पर्यवृत्तिर्वाक्यार्थे स तस्माच्चोदनाश्रयः ॥ 6 शब्दैकलभ्यतारागादेवान्येऽन्वितवादिनः । तात्पर्येणान्यथासिद्ध्या परेऽभिहितवादिनः ॥ वाक्यं प्रमाणान्तरं स्यात्पदसन्निधिलक्षणम् । तल्लक्षणसामर्थ्यं मतमिन्द्रियलिङ्गवत् ॥ तथा कार्यार्थसिद्धार्थव्युत्पत्त्येकान्तभेदतः । अन्विताभिहितेत्यादिमतभेदः व्यवस्थितः ॥ पदज्ञानं तु करणं द्वारमर्थस्मृतिस्ततः । फलं संसर्गबोधस्स्यात् इति नैयायिका विदुः तत्रान्वयोऽनधिगतः वाक्यवेद्यो यतस्ततः । ते त्वन्वयाभिधानस्य वादिनः परमार्थतः ॥ निर्विशेषब्रह्मवादे ह्यन्वितस्यान्वयस्य वा । भेदगर्भत्वतः शब्दः न तादृग्ब्रह्मबोधकः ॥ सविशेषब्रह्मवादे प्रधानार्थाविरोधतः । नैकत्र निर्भरस्तस्माद्व्यवहारो यथायथम् ॥ अन्वीयमानवस्तूनामभिधानं परेऽब्रुवन् । अन्येऽभिधीयमानानामर्थानामन्वयं जगुः ॥ अत्रापि केचिन्मन्यन्ते सामान्येनान्विताभिधा विशेषतश्चाभिहितान्वय इत्यपि कल्पनाम् ॥ M.R. 66