मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 564, कुल 672 में से
संदर्भ में पढ़ेंअतस्सामान्यतो ज्ञातः पदान्तरबलात्पुनः । भवेद्विशेषविज्ञातः तेन स्यादन्वितोक्तिता ॥ इत्यप्याहुर्बुधाः केचित् सर्वथाऽन्वयबोधनम् । फलं सर्वत्राविशिष्टमित्याहुश्चिन्तनालसाः ॥ मीमांसकस्य सिद्धान्तः तथा नैयायिकस्य वा । प्रदर्शितः परिष्कृत्य प्रायो वेदान्तवादिभिः ॥ एष वाक्यार्थवादोऽत्र देवताप्रीतये कृतः । सर्वत्र देवताप्रीतिः कर्तव्येति हि निर्णयः ॥ लक्ष्मीपुरं श्रीनिवासविपश्चिच्चक्रवर्तिना । एवं प्रमाणभागोऽयं द्वितीयस्समगृह्यत ॥ श्रीः. प्रीयतां भगवान् वासुदेवः. इति श्रीवत्सकुलकलशजलनिधिकौस्तुभायमानश्रीवेङ्कटार्यतनू- भवस्य ताताम्बागर्भशुक्तिमुक्ताफलायमानस्य श्रीमत्कस्तूरीरङ्ग- नाथविद्वन्मणिकरुणाकटाक्षसमासादितसारस्वतसर्वस्वस्य श्री- मद्विरक्तराघवार्यचरणानुगृहीतसकलसम्प्रदायरहस्यस्य श्रीम- द्राजाधिराजमहीशूरमहीधुर्यतुर्यश्रीकृष्णराजसार्वभौमपरिपोषि- तस्य महाविद्वत्पण्डितरत्नाद्यनेकबिरुदालङ्कृतस्य संस्कृत- महापाठशालानिगमान्तप्रधानोपाध्यायस्य श्रीमतो लक्ष्मीपुराभिजनस्य श्रीनिवासाचार्यस्य कृतिषु मानमेयरहस्यश्लोकवार्तिके प्रमाणकाण्डः द्वितीयः समाप्तः.