मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 565, कुल 672 में से
संदर्भ में पढ़ेंअथ तृतीयः प्रयोजनकाण्डः. (107) त्रिवर्गवादः. 1 प्रयोजनविचारोऽथ तृतीयोऽयं विलिख्यते । व्यापारस्य हि सर्वस्य विश्रमोऽस्ति प्रयोजने ॥ धर्मार्थावुच्यते श्रेयः कामार्थौ धर्म एवच । अर्थ एवेह वा श्रेयः त्रिवर्ग इति तु स्थितिः ॥ इति प्राह मनुस्तस्य वचनस्यायमाशयः ॥ श्रेयःपदं पुमर्थस्य वाचकं सर्वसम्मतम् ॥ अर्थ एव पुमर्थस्स्यादित्येकेषामिहाशयः । अर्थ एवहि धर्मस्य कामस्यास्तीह साधनम् ॥ काम एव पुमर्थस्स्यादिति केषांचिदाशयः । धर्म एव श्रेय इति रौति वै बादरायणः ॥ ऊर्ध्वबाहुर्विरौम्येष नच कश्चिच्छृणोति मे । धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥ अर्थकामौ श्रेय इति चापरेषामिहाशयः । अर्थकामौ हि जगति प्रथितं सुखसाधनम् ॥ अर्थधर्मौ श्रेय इति चाचार्या मन्वतेऽपरे । कामो हि धर्मार्थाभ्यां स्यादिति तेषामिहाशयः॥ 523