मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 566, कुल 672 में से
संदर्भ में पढ़ें24 मानमेयरहस्यश्लोकवार्तिके परस्पराविरुद्धस्तु त्रिवर्गश्श्रेय इष्यते । पुरुषार्थतयेत्यत्र मनोः स्मर्तुः विनिर्णयः ॥ मुमुक्षूणां पुनः श्रेयः मोक्ष एवेतिचेरितम् । षष्ठाध्याये, ततः पक्षाः विबुधैस्सप्त निश्चिताः ॥ तमसो लक्षणं कामः रजसस्त्वर्थ उच्यते । सत्त्वस्य लक्षणं धर्मः श्रैष्ठ्यमेषां यथोत्तरम् ॥ एवं प्राचां विवादेऽपिचाधुना ते चतुर्विधाः । पुरुषार्थाः चतुर्वर्गः इति पीठप्रकल्पना ॥ २ धर्मश्चार्थश्च कामश्च मोक्षश्चेति चतुर्विधः । पुरुषार्थो विभक्तोऽस्ति यथा स्मृतिपुराणयोः ॥ धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ । यदत्रास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥ अत्रायेऽर्थे चतुर्भिश्चैरधर्माद्यास्समुच्चिताः । मिथस्समुच्चयश्चेति व्याख्यातं तन्त्रवार्तिके ॥ अर्थं प्रोवाच चाणक्यः कामं वात्स्यायनोऽब्रवीत् । धर्मं तु जैमिनिः प्राह मोक्षं वै बादरायणः ॥ एतेऽधुना तीर्थकराः पुमर्थानामिति श्रुताः । समुच्चयविदस्सर्वेऽप्यधिकारिविभेदतः ॥ पुरुषैरर्थ्यमानत्वात्पुरुषार्थ इतीर्यते । स तु स्यात्सुखमेवात्र तच्चतुर्धा विभज्यते ॥