भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 567, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 567

त्रिवर्गवादः 5 शारीरं मानसं चेति द्विधा तत्सुखमिष्यते । अर्थकामौ तु शारीरं धर्ममोक्षौ तु मानसम् ॥ 3 पुमवस्थाक्रमेणैव पुरुषार्थक्रमोऽप्यसौ । निर्देशव्युत्क्रमे चापि हेतुरग्रेऽवगम्यते ॥ . उत्पत्तितस्त्विन्द्रियार्थसन्निकर्षनिबन्धनम् । यत्तदर्थसुखं ज्ञेयमथ कामो निरुच्यते ॥ वयोऽवस्थाविशेषेण सहवासादिनाऽपिवा । पुंस्त्वाद्यभिव्यक्तिभवं अवस्थैकनिबन्धनम् ॥ तथा विद्यासंस्कृतेन मनसा धर्मलक्षणम् । सुखं ह्यनुबुभूषन्ति नियोगसुखवादिनः ॥ फलान्तराहेतुरपि स्वरूपे कार्यबुद्धितः । स्वयंप्रयोजनं नित्यमित्यप्यत्रेतेरे विदुः ॥ प्रत्यवायपरीहारबुद्ध्या कर्तव्यमेव तत् । इत्याहुरपरे प्राज्ञाः स धर्मस्सुखमर्थ्यते ॥ अतएवहि यज्ञस्य त्रैविध्यपरिशोधने । अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ॥ यष्टव्यमेवेति मनस्समाधाय स सात्त्विकः । इत्यस्य पुरुषार्थत्वं गीतं भगवता स्वयम् ॥ ख्यातेर्लाभस्य पूजायाः मानसी सुखता यथा । तथा धर्मस्य सुखता शास्त्रदृष्टिभिरीक्ष्यते ॥