मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 581, कुल 672 में से
संदर्भ में पढ़ेंमुक्तात्मविकल्पः ५३९ सर्वज्ञता सर्वशक्तिः जडता तुच्छताऽपिवा । तथैव सर्वतोमुक्तिस्सर्वप्राप्तिरितीर्यते ॥ अपोहदृष्टयः केचित्केचिदन्वयदृष्टयः । श्रद्धामयोऽयं पुरुषः यो यच्छ्रद्धस्स एव सः ॥ नैरात्म्यमेव सार्वात्म्यं इति तत्त्वविदो विदुः । एष कश्चित्सर्वसमरसभावविनिर्णयः ॥ (110) मुक्तात्मविकल्पः 1 आत्मनः खलु वै मोक्षोऽथात्मचिन्ता प्रवर्तते । आत्मतत्त्वानुसारेण मोक्षतत्त्वं विभिद्यते ॥ तथाच लोकायतिकाः परलोकापवादिनः । चैतन्यखचितात्कायान्नात्माऽन्योऽस्तीति मन्वते 2 अथो तथागताः प्राहुः किं पुंसा कल्पितेन वा । ज्ञानमात्रेण सर्वोऽपि व्यवहारोऽवकल्पते ॥ ज्ञानस्यैव प्रभेदोऽयमिच्छाद्वेषसुखादिकः । न वस्त्वन्तरमित्येवं न ततोऽन्यप्रकल्पनम् ॥ गुणत्वमपि नास्त्यस्य यतोऽधिष्ठानकल्पना । न गुणव्यतिरिक्तश्च गुणी नामास्ति कश्चन ॥ तद्विज्ञानस्कन्ध एषः क्षणिकश्च ध्रुवान्तकः । कर्तृभोक्तृप्रत्यभिज्ञाव्यवस्था वासनानुगा ॥