मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 583, कुल 672 में से
संदर्भ में पढ़ेंस्यातामत्यन्तनाशेऽस्य कृतनाशाकृतागमौ । न त्ववस्थान्तरप्राप्तौ लोके बाल्युवादिवत् ॥ विक्रियात्मस्वभावोऽपि व्यावृत्त्यनुगमात्मकः । पुरुषोऽभ्युपगन्तव्यः कुण्डलादिषु सर्पवत् ॥ सर्वावाप्तिसमर्थश्च प्रकृत्याऽऽत्मा सदेष्यते । कश्चित्तु प्रतिबन्धोऽस्य कर्मभिस्सोऽपनीयते ॥ 7 विशुद्धाद्वैतिनोऽविद्यावशात्सर्वस्य संगतेः । विद्यया तन्निवृत्तेश्च कौटस्थ्यं प्रतिपेदिरे ॥ ज्ञातृज्ञानज्ञेयभेददर्शनं दोषबन्धनम् । दोषहानौ सदद्वैतं आनन्दमजरामरम् ॥ 8 विशिष्टाद्वैतिनो धर्मभूतज्ञानगतं विदुः । विकारजातमात्मानं निर्विकारं प्रचक्षते ॥ तदेवं चित्स्वभावस्य पुंसः स्वाभाविकी चितिः । तत्तत्पदार्थसंसर्गात्तत्तद्वित्त्वमश्नुते ॥ स विकारः कर्ममूलः तस्मादौपाधिकस्तु सः । स्वाभाविको मोक्षदशाविकासः न स दुष्यति ॥ ज्ञानात्मको ज्ञानधर्मा शेषतैकरसः पुमान् । निरञ्जनस्तु परमं साधर्म्यमुपगच्छति ॥ 9 विशुद्धाद्वैतिनः कर्तृभोक्तृत्वप्रमुखान् गुणान् । रूपगन्धरसस्पर्शप्रभृतींश्चात्मनो विदुः ॥