मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 584, कुल 672 में से
संदर्भ में पढ़ेंसर्वे स्वरूपभूतास्स्युः ते यावद्द्रव्यभाविनः । अन्तःकरणधर्मंश्च ज्ञानादीन् सांख्यरीतितः ॥ विदुस्स्वरूपातिरिक्तान् सुखादीन् साक्षिगोचरान् । सर्वेऽप्यौपाधिकाः कर्मनाशे नश्यन्ति केवलम् ॥ सांशोऽपि सविकारोऽपि साकारोऽपि परस्परम् । विलक्षणोऽपि जीवात्मा नित्य एवेति निर्णयः ॥ 10 द्रव्यात्मा निर्विकारस्स्यात् पर्यायात्मा विकार्यपि । नातो विरोध इत्याहुर्भेदाभेदविशारदाः ॥ सत्योपाध्युपधानेन कर्तृभोक्त्रादिलक्षणः । पुरुषो भास्करमते निर्विकारः स्वतः पुमान् ॥ 11 स्याद्वादिनो विकारित्वं सांशत्वं द्रव्यतां तथा । पर्यायत्वं च मूर्तत्वं परिच्छिन्नत्वमेवच ॥ अनादित्वमनन्तत्वं आत्मरूपं प्रचक्षते । आनन्दरूपं सार्वज्ञ्यं स्वातन्त्र्यं सदनुग्रहम् ॥ 12 अविद्योपाधिना वा शक्त्या धर्मेण वा पुनः । स्याद्वादाद्वा वासनया विरोधाभावसंग्रहः ॥ 13 चतुर्विधाः पुरा प्रोक्ताः ह्यात्मानित्यत्ववादिनः । चतुर्ष्वपि मतेष्वेतान् क्रमाद्दोषान् विदुः परे ॥ आद्ये मते त्वैहिकार्थप्रवृत्तिर्दुर्घटा भवेत् । देहान्तत्वे विश्ववृत्तिर्धर्म्ये पथि न सिद्ध्यति ॥