मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 588, कुल 672 में से
संदर्भ में पढ़ें546 मानमेयरहस्यश्लोकवार्तिके सौभर्यादिन्यायाद्वाऽपि नानादेहपरिग्रहात् । सर्वं कर्मानुभूयान्ते मुक्तास्स्युरिति केचन ॥ नित्यं नैमित्तिकं कर्म कर्तव्यं ज्ञानिनामपि । अनुष्ठानायासमाहुः फलं प्राक्कर्मणां परे ॥ 5 नित्यं नैमित्तिकं कर्म प्राक्तनं कर्म नाशयेत् । प्रायश्चित्तनयाच्चेति बृहट्टीकाकृतां मतम् ॥ नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् । ज्ञानं च विमलीकुर्वन्नभ्यासेन च पाचयेत् ॥ अभ्यासाच्च क्वचित् ज्ञानात्कैवल्यं लभते नरः । धर्मेणापनुदेत्पापं प्रायश्चित्तेन वा सुधीः ॥ इत्यादीनि वचांस्यत्र प्रमाणानि परश्शतम् । प्रतिपद्य विनिर्णीतः मुक्त्यै कर्मपरिक्षयः ॥ 6 तत्र ज्ञातात्मतत्त्वानां भोगात्पूर्वक्रियाक्षये । उत्तरप्रचयाभावात् विदुर्मुक्तिं कुमारिलाः ॥ मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः । नित्यनैमित्तिके कुर्यात्प्रत्यवायजिघांसया ॥ 7 सर्वाणि पूर्वकर्माणि संभूयैकं शरीरिणाम् । शरीरमारभन्तेऽतः प्रारब्धान्नास्ति संचितम् ॥ स चैकभविकः पक्षः पातञ्जलमतादृतः । तं नाद्रियन्ते बहवः कर्मशेषवचश्शतैः ॥