मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 587, कुल 672 में से
संदर्भ में पढ़ेंकर्मनिवृत्तिवादः ५४ कर्मक्षयो हि विज्ञानादित्येतच्चाप्रमाणकम् । तथाऽल्पफलदानं च राजपुत्रापराधवत् ॥ नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । इत्यादीनि वचांस्यत्र प्रमाणमुपलभ्यते ॥ ३ तत्र ये त्वात्मनो नाशं स्वरूपेण विदुर्बुधाः । तेषामाश्रयनाशेनाशेषबन्धपरिक्षयः ॥ बन्धश्चित्तगतो येषामात्मा कूटस्थलक्षणः । तेषां तु कापिलादीनां चित्तनाशेन मोक्षणम् ॥ दृग्दृश्यभाव एव स्यात्संयोगः पुंप्रधानयोः । भोगापवर्गार्थतायां कृतायां तन्न दृश्यते ॥ आविद्यकं कर्म येषामविद्यावादिनां मतम् । स्वप्रप्रबोधन्यायेन विद्यायां तत्परिक्षयः ॥ तां विद्यां केचिदिच्छन्ति विबुधा भावनामयीम् । साक्षात्कारवतीं केचित् केचिच्चिन्तामयीं बुधाः ॥ केचित् श्रुतिमयीं केचिदाहुर्वाक्यार्थधीमयीम् । एवं बहुविधा वादाः मायामभ्युपगच्छताम् ॥ ४ कणादमुनिसिद्धान्ते मार्गद्वयमिदं पुनः । प्रशस्तपाददेवेन सूचितं भाष्यसागरे ॥ केषांचियोगिनां शान्तिसंतोषस्सुखलक्षणः । दुःखात्मकं तपश्चैव पुण्यपापफलं त्विति ॥ M.R. 69