मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 586, कुल 672 में से
संदर्भ में पढ़ें(111) कर्मनिवृत्तिवादः. 1 मुक्तिर्हि कर्मणो मोक्षः कर्मतत्त्वं विबुद्ध्यताम् । पुण्यं पापमिति द्वेधा लोके कर्म हि विश्रुतम् ॥ पुण्यं विहितजन्यं स्यात् पापं तु प्रतिषिद्धजम् । सुखस्य साधनं पुण्यं पापं दुःखस्य साधनम् ॥ इति सामान्यतस्सिद्धं तद्विकल्पोऽवधार्यताम् । शाबरा ब्रुवते धर्मं कर्म यागादिलक्षणम् ॥ अपूर्वं कर्मनिर्वर्त्यं वृद्धमीमांसका विदुः । प्राभाकरास्तु वाक्यार्थं नियोगं तत्प्रचक्षते ॥ स भावनाविशेषस्स्यादात्मस्थ इति निर्णयः । कौमारिलास्तु संस्कारं धर्माधर्मौ पुमाश्रितम् ॥ बुद्धिवृत्तिविशेषो यः तं धर्मं कापिला विदुः । धर्मत्वेन व्यपदिशन्त्यार्हताः पुण्यपुद्गलान् ॥ आराध्यदेवताप्रीतिं बादरायणवर्त्मगाः । आचक्षते धर्मगिरा सौगताश्चित्तवासनाम् ॥ 2 इत्थं तत्त्वे विनिर्ज्ञाते धर्माधर्मपदार्थयोः । तन्निवृत्तौ विवादोऽयं प्रवृत्तस्त्ववगम्यताम् ॥ नन्वात्मदर्शनं मोक्षहेतुस्स्यादित्यसाम्प्रतम् । अनादित्वादनन्तत्वात्कर्मणां संततात्मनाम् ॥ अथ दोषक्षयान्मा भूदुत्तरः कर्मसंग्रहः । कथं फलमदत्त्वैव प्राक्तनं कर्म शाम्यति ॥