मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 597, कुल 672 में से
संदर्भ में पढ़ें(113) मोक्षसाधनम्. 1 लोकायतमते देहविच्छेदे मोक्षलक्षणे । स्वभावस्साधनं यस्मात्ते ह्याकस्मिकताविदः ॥ आत्मानं पूजयेन्नित्यं भूषणाच्छादनादिभिः । स्वदेह एव दैवं स्यादन्यद्दैवं न विद्यते ॥ देवादिपदवाच्यास्स्युः प्रतिमा मृच्छिलामयाः । अतएवहि देवास्स्युरमरा निर्जरा अपि ॥ अस्वप्ना नित्यतृप्ताश्च नाश्रन्ति न पिबन्त्यपि । अपुत्राश्चाप्यनिमिषाः त्रिदशा अपि विश्रुताः ॥ देवालयः स्थानमपि सदा सुमनसश्च ते । महान् चतुर्भुजादिस्स्याद्विग्रहः परमेश्वरः ॥ तथैव लौकिको राजा परमेश्वर उच्यते । तस्यानुवर्तनं कार्यं उत्तमां भूतिमिच्छता ॥ अरोगदृढगात्रत्वं सुखस्योत्तमकारणम् । एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ इति चार्वाकसिद्धान्तः प्रत्यक्षस्सार्वलौकिकः । अथार्हतानां सिद्धान्ते मोक्षसाधनसंग्रहः ॥ 2 सम्यग्दर्शनचारित्रश्रद्धानं मोक्षसाधनम् । इत्यर्हदुक्तिसंक्षेपपरमागमसंग्रहः ॥ यथाऽवस्थिततत्त्वानां संक्षेपाद्विस्तरेण वा । योऽवबोधस्तमत्राहुः सम्यग्ज्ञानं मनीषिणः ॥