मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 609, कुल 672 में से
संदर्भ में पढ़ेंएवंहि श्रीयामुनेयागमप्रामाण्यनिर्णयः । वैश्यात्तु जायते व्रात्यात् मैत्रस्सात्त्वत एवच ॥ पञ्चमस्सात्त्वतो नाम विष्णोरायतनानि सः । पूजयेदाज्ञया राज्ञां स तु भागवतः स्मृतः ॥ इत्यादिवचनैर्हीनजातिशङ्का न युज्यते । मा भूदाचार्यशब्दत्वाद्व्राह्मणस्य निकृष्टता ॥ विष्णुपूजादिसंबन्धाज्जात्यन्तरभवा अपि । प्रसिद्धास्सात्त्वताश्चेति तथा भागवता इति ॥ 6 एवं शास्त्रं संप्रदायं कर्तारं विषयं तथा । आचष्ट भगवान् व्यासः भारते शान्तिपर्वणि ॥ सांख्यस्य वक्ता कपिल इत्यारभ्य हि पठ्यते । पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ॥ वेदान्तेषु यथा सारं संगृह्य भगवान् हरिः । भक्तानुकम्पया विद्वान् संचिक्षेप यथासुखम् ॥ ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः । अर्चनीयश्च सेव्यश्च पूजनीयश्च माधवः ॥ सात्त्वतं विधिमास्थाय गीतस्संकर्षणेन यः । द्वापरस्य युगस्यान्ते ह्यादौ कलियुगस्य च ॥ नारदेन तु संप्राप्तस्सरहस्यः ससंग्रहः । एष धर्मो जगन्नाथात् साक्षान्नारायणान्नृप ॥