भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 612, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 612

70 मानमेयरहस्यश्लोकवार्तिके पाञ्चरात्रश्रुतिः पाञ्चरात्रोपनिषदोऽपि च । संकर्षणस्य सूत्राणीत्यादिकं विविधं तु तत् ॥ तत्सूत्रस्थं वाक्यमेकमिदं तावदुदाहृतम् । येनेदं दृश्यते विश्वं द्रष्टा सर्वस्य यस्सदा ॥ दृश्यश्चराचरत्वे यः स विष्णुरिति गीयते । एतेन विष्णुपारम्यसिद्धान्तोऽयमिति स्थितम् ॥ तत्सूत्रमनुसृत्यैव काशकृत्स्नेन वाऽथवा । कृतं जैमिनिना सूत्रं देवताकाण्ड इष्यते ॥ पूर्णप्रज्ञैरनुव्याख्याप्रबन्धे देवकाण्डगः । द्वितीयलक्षणश्शेषप्रणीत इति भाषितम् ॥ स एष संकर्षकाण्डः मीमांसाभाष्यकर्तृभिः । आचार्यशबरैः पूर्वाचार्यैश्च समुदाहृतः ॥ अन्ते हरौ स विष्णुश्च तं ब्रह्मेति च सूत्रणात् अथातो ब्रह्मजिज्ञासा चेति शास्त्रं सुसङ्गतम् १ तत्र शारीरकं शास्त्रं बादरायणनिर्मितम् । स बादरायणो व्यास इत्याहुर्बहवो बुधाः ॥ श्रीमद्रामानुजाचार्यः बादरायणनिस्वनम् । भाष्ये स्वे सूत्रकृत्त्वेन व्यासत्वेनाप्यभाषत ॥ तथा श्रीयामुनाचार्यस्सिद्धित्रयनिबन्धने । उपक्रमे प्राह सूत्रं बादरायणनिर्मितम् ॥