मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 613, कुल 672 में से
संदर्भ में पढ़ेंभक्ति: 57 श्रीशाङ्करे भास्करेऽपि चान्त्यसूत्रावतारणे । सूत्रकर्तेति विस्पष्टो भगवान् बादरायणः ॥ स्मरन्ति चेत्यादिसूत्रे व्यासादय इतीरणात् । कृष्णद्वैपायनो नासाविति भङ्ग्याऽत्र सूच्यते ॥ स्मृतेश्चेत्यादिसूत्रेषु गीतावचनलेखनात् । ब्रह्मसूत्रपदैश्चेति गीतायामपि दर्शनात् ॥ परस्परगृहीतिस्तु विरोधायेति दृष्टितः । ब्रह्मसूत्रपदं वेदमौळिवाक्यपरं कृतम् ॥ इत्युल्लिखन्ति कतिचित् न तत्तु विदुषां मतम् । कृष्णद्वैपायनस्सूत्रकर्ता भारतकृच्च सः ॥ द्वीपे बदरिकामिश्रे बादरायणमच्युतम् । पराशरात्सत्यवती लेभे पुत्रं परंतपम् ॥ तस्यैव सूत्रकर्तृत्वं पूर्णप्रज्ञैरुदाहृतात् । स्कान्दवाक्यादपि स्पष्टं निर्णयन्ति यथा पुनः । अवतीर्णो महायोगी सत्यवत्यां पराशरात् । उत्सन्नान् भगवान् वेदान् उज्जहार हरिस्स्वयम् चतुर्धा व्यभजत्तांश्च चतुर्विंशतिधा पुनः । शतधा चैकधा चैव तथैवच सहस्रधा ॥ कृष्णो द्वादशधा चैव पुनस्तस्यार्थवित्तये । चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा ॥