मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 615, कुल 672 में से
संदर्भ में पढ़ेंभक्तिः कतैर् व हि स्वकं ग्रन्थं आवपत्युद्धपत्यपि । बहोः कालात्प्रवक्तॄणां संप्रदाये तु किंपुनः ॥ प्रवक्तारस्तत्रतत्र जैमिन्यादिपदैरपि । प्रकाशयन्ति तत्रत्याभिप्राय़ानिति युज्यते ॥ तथाच सर्वैराचार्यैः सम्प्रदायप्रवर्तने । परिष्कृतिप्रभेदेन व्यवहारो विकल्पताम् ॥ स्मृतिसूत्रप्रवाहोऽयमनादिरिति वर्णितम् । कालेकाले संभवतां प्रायस्संकोचविस्तरौ ॥ कर्मकाण्डः देवकाण्डः ब्रह्मकाण्ड इति त्रयम् कृतं जैमिनिनैवेति चोल्लिखन्ति परे बुधाः ॥ प्रसिद्धिराद्ययोरस्ति तृतीयस्य पुनर्यथा । नैष्कर्म्यसिद्धौ नवतितमश्लोकस्थभारती ॥ जैमिनिस्सामगाचार्यस्सामवेदप्रवर्तकः । व्यासशिष्य इति स्पष्टं श्रूयते भारतादिषु ॥ कर्मकाण्डे सामवेदविचारः प्रायशस्ततः । छान्दोग्योपनिषत्सामशाखीयेति च विश्रुता । प्रायस्तदीयवाक्यानि सूत्राणां विषया इति । सूत्रभाष्यसमध्येतृविदुषामतिरोहितम् ॥ जैमिनीयं ब्रह्मसूत्रमावापोद्वापतः पुनः । पर्यष्कार्षीद्व्यास इति संदर्भेणोहितुं क्षमम् ॥