मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 616, कुल 672 में से
संदर्भ में पढ़ें574 मानमेयरहस्यश्लोकवार्तिके अनेकेषां मतं ब्रह्मसूत्रेषूदाहृतं ततः । ब्रह्मसूत्राण्यप्यनेकान्यासन्निति च कल्प्यते ॥ एवं प्रकल्पने प्रायः भाति सर्वं सुसंगतम् । किंकिं नसंभाव्यतेऽत्र संसारेऽनादिवाहिनि ॥ 11 अथात्रैवेश्वरे वादविकल्पोऽपि विविच्यते । निर्देववादो निस्संविदैववादः पुरोदितः ॥ निरीश्वरो निर्विशेषेश्वरो वेति विकल्पना । कालं ब्रह्म विदुः केचित् स्फोटं ब्रह्म विदुः परे । कर्म ब्रह्म विदुः केचित् परेऽथ प्रकृतिं विदुः । प्रतिबिम्बैश्वर्यवादः प्रतिभासेश्वरस्तथा ॥ निष्व्यापारेश्वरः कश्चित् तथाऽन्यो निरनुग्रहः । प्रवाहेश्वरवादोऽन्यः नानेश्वर इतीतरः ॥ मूर्तित्रयेश्वरः कश्चित् तदन्यतम इत्यपि । तदुत्तीर्णविवादोऽन्यः शाक्तसौरादिकल्पनी ॥ कल्पना काचिदन्योन्यविभिन्नास्त्रय ईश्वराः । ये सत्त्वादिगुणोन्मेषभिदुरेष्वधिकारिणः ॥ कल्पेषु ते चक्रनेमिनीत्या निम्नोन्नतश्रियः । एवं बहुविधा वादाः दृश्यन्ते खल्वपीश्वरे ॥ द्विलिङ्गो द्विविभूतिश्च विष्णुर्नारायणो हरिः । श्रीपाञ्चरात्रसिद्धान्ते ह्येष ईश्वरनिर्णयः ॥